________________
१२१
गच्छाचारपइण्णयं अज्जाया, वोच्छं से विहीइ वोसिरणं ।।४।।' आचार्याद्यर्थे तथा दुर्लभे विशिष्टे द्रव्ये सति सहसा च तल्लाभे जाते सति इत्यादिहेतोरधिकग्रहणं स्यात्, एषाऽजातापारिष्ठापनिका ४ । 'एगंतमणावाए, अच्चित्तेथंडिले गुरुवइट्टे । आलोए तिण्णि पुंजा, तिट्ठाणं सावणं कुज्जा ।।५।।' आलोकेप्रकाशे शुद्धाहारस्य त्रीन् पुञ्जान् कुर्यात्, आधाकर्मादिमूलगुणदुष्टे एकं उत्तरगुणदुष्टे तु द्वौ इति विशेषः, पूर्ववत्तिः श्रावणं च कुर्यात्, एवमुपकरणविषयेऽपि जाताजाते पारिष्ठापनिके ज्ञेये इति । तथा द्विचत्वारिंशदेषणाकुशलः-द्विचत्वारिंशदेषणादोषवर्जनचतुर उपलक्षणत्वात् पञ्चग्रासैषणादोषवजनचतुरश्चेत्यर्थः । एवंविधो गच्छवासी मुनिः स्यादिति शेषः, तत्र एषणा चतुर्दा, कस्यापि एषणेति नामेति नामैषणा १, एषणावतः साध्वादेरयमेषणेति स्थापनेति स्थापनैषणा २, द्रव्यैषणा सचित्ताचित्तमिश्रभेदात् त्रिधा ३, भावैषणाऽपि गवेषणैषणाग्रहणैषणाग्रासैषणाभेदात् त्रिधा, तत्र गवेषणैषणायां प्रथमे द्वात्रिंशद्दोषाः ग्रहणैषणायां शङ्कितादिदशदोषा ज्ञेयाः, तत्र दायकदोषस्य किञ्चिदुच्यते, तत्रोत्सर्गेण बालादिचत्वारिंशदायकानां हस्ताद् ग्रहणं न कल्पते, अपवादे तु बालादिपञ्चविंशतिसंख्यानां हस्ताद् ग्रहणं भजनीयम्, अन्येषां पञ्चदशानां हस्तादग्रहणभिति । भजना यथा-यदि बालो दक्षः स्यात् तदा तेन मातुः परोक्षे भिक्षामात्रे दीयमाने यदि वा पार्श्ववर्तिना मात्रादिना सन्दिष्टे सति तेन दीयमानेऽविचारितमेव ग्राह्यम्, अतिप्रभूते तु बालेन दीयमाने किमद्य त्वं प्रभूतं ददासीति विचारणे सति यदि पार्श्ववर्त्तिमात्रादि सानुकूलता स्यात् तदा ग्राह्यं नान्यथा १, स्थविरो यदि प्रभुर्भवति यदि वा कम्पमानोऽन्येन धृतः स्यात् स्वरूपेण वा दृढशरीरस्तदा ततः कल्पते २, यो मनाग् मत्तः स च यदि श्राद्धोऽविह्वलश्च ततः तस्मात् कल्पते यदि सागारिको न विद्यते नान्यथेति ३, उन्मत्तो दृप्तादिर्यदि शुचिर्भद्रकश्च तदा तद्धस्तात्कल्पते नान्यथा ४, वेपितोऽपि यदि दृढहस्तस्तदा तस्मात्कल्पते ५, ज्वरितादपि