________________
गच्छाचारपइण्णयं
१२०
च समुद्वहति ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते, तावत्प्रमाण आहारो भावकुक्कुटी, अत्र भावस्य प्राधान्यविवक्षणादेष प्राग्द्रव्यकुक्कुट्यप्युक्तः इह भावकुक्कुटी उक्तः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्प्रमाणं कवलस्येति २ पिण्डनिर्युक्तिवृत्तिप्रान्ते तथा भगवती सप्तमशतप्रथमोद्देशकवृत्तावपि यथा ‘कुक्कुडिअंडगपमाणमेत्ताणं' ति कुक्कुट्यण्डकस्य यत्प्रमाणं मानं तन्मात्रापरिमाणं मानं येषां ते तथा अथवा कुटीव - कुटीरकमिव जीवस्याश्रयत्वात् कुटी-शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुक्कुटी तस्या ण्डकमिवाण्डकमुदरपूरकत्वादाहारः कुक्कुट्यण्डकं तस्य प्रमाणतो मात्रा द्वात्रिंशत्रूपा येषां ते कुक्कुट्यण्डकप्रमाणमात्राः अतस्तेषां अयमभिप्रायोयावान् यस्य पुरुषस्याहारस्तस्य द्वात्रिंशत्तमो भागस्तत्पुरुषापेक्षया कवल इदमेव कवलमानमाश्रित्य प्रसिद्धकवलचतुःषष्ठ्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कवलैः प्रमाणप्राप्ततोपपन्ना स्यात् नहि स्वभोजनस्यार्द्धं भुक्तवतः प्रमाणप्राप्तत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति। अथवा 'जायमजायाहारे' त्ति मकारस्यालाक्षणिकत्वात् जाताजाताधारः आवश्यक पारिष्ठापनिकानिर्युक्त्युक्तजाताजातारव्यपारिष्ठापनिकाविधिज्ञ इत्यर्थः । तत्र जाताजातस्वरूपं यथा 'आहारम्मि उ जा सा, सा दुविहा होइ आणुपुव्वीए । जाया चेव सुविहिआ, नायव्वा तह अजाया य । । १ । । आहाकम्मे अ तहा, लोहविसे आभिओगिए गहिए । एएण होइ जाया, वोच्छं से विहीइ वोसिरणं ।। २ ।। आधाकर्मणि च तथा लोभाद् गृहीते विषकृते गृहीते मक्षिकादिविपत्त्या ज्ञाते आभियोगिके वशीकरणादिमन्त्राभिसंस्कृते चेतोऽन्यथात्वादिलिङ्गतो ज्ञाते सति एतेनाधाकर्मादिदोषेण जाता स्यात् ‘से' तस्या विधिना व्युत्सर्जनं वक्ष्ये २ । 'एगंतमणावाए, अच्चित्ते थंडिले गुरुवइट्टे । छारेण अक्कमित्ता, तिट्ठाणं सावणं कुज्जा ।।३।।' त्रीन् वारान् श्रावणं कुर्यात् अमुकदोषादिदं त्यज्यते इति त्रिरुच्चरेत् ३ । ‘आयरिए अ गिलाणे, पाहुणए दुल्लहे सहसलाभे । एसा उ खलु