SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११९ गच्छाचारपइण्णयं दूरोज्झितपात्रादिममत्वो निस्पृहः शरीरेऽपि । जाताजाताहारः द्विचत्वारिंशदेषणाकुशलः ।।५७।। व्याख्या - 'दूरुज्झियपत्ताइसुममत्तए' त्ति दूरत उज्झितं-त्यक्तं पात्रादिषु ममत्वं येन स दूरोज्झितपात्रादिममत्वः सूत्रे त्वार्षत्वाद्विभक्तेरलोपः अथवा दूरत उज्झितं पात्रादिषु सु-अतिशयेन ममत्वं येन स दूरोज्झितपात्रादिसुममत्वः तथा निःस्पृहः-ईहारहितः मेघकुमारादिवत्, क्व शरीरेऽपि-स्ववपुष्यपि किं पुनरन्यत्र तथा 'जायमजायाहारो' त्ति मकारस्यालाक्षणिकत्वात्, जातः-संपन्नोऽजातश्च-असम्पन्न आहारो यस्यासौ जाताजाताहारः कदाचित्कृताहारः कदाचिदकृताहार इत्यर्थः । तत्र शुद्धलब्धे जाताहारः, अलब्धेऽशुद्धे वा लब्धेऽजाताहारः, उक्तञ्च-'अलब्धे तपसो वृद्धिर्लब्धे देहस्य धारणे' ति अथवा 'जायमजायाहारे' त्ति यात्रामात्राहारः यात्रायै मात्रयाहारो यस्यासौ यात्रामात्राहारः आर्षत्वाच्चेत्थं सिद्धिः, तत्र यात्रा-संयमस्वाध्यायादिरूपा मात्रा तु-तदर्थमेव पुरुषस्त्रीषण्ढानां क्रमेण द्वात्रिंशदष्टाविंशतिचतुर्विंशतिकवलप्रमाणाहारमध्यादेकद्वित्र्यादिकवलेनाहारग्रहणमिति । कवलप्रमाणं कुक्कुट्यण्डकमानेन तथाहि-इह कुक्कुटी द्विधा, द्रव्यभावभेदेन, द्रव्यकुक्कुटी द्विधा, उदरकुक्कुटी १ गलकुक्कुटी (च) २, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्यधिकं स आहारः उदरकुक्कुटी, उदरपूरक आहारः कुक्कुटीव उदरकुक्कुटीति मध्यमपदलोपिसमासाश्रयणात् तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्प्रमाणं कवलस्य १, गलं कुक्कुटीव गलकुक्कुटी तस्या अन्तरालमण्डकं अयं भावः अविकृताऽऽस्यस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति, तत्प्रमाणं कवलस्य २ अथवा शरीरमेव कुक्कुटी तन्मुखमण्डकं तत्राक्षिकपोलभ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति, तत्प्रमाणं कवलस्य अथवा कुक्कुटी पक्षिणी तस्या अण्डकं तत्प्रमाणं कवलस्य १। भावकुक्कुटी तु येनाहारेण भुक्तेन न न्यूनं नाप्यत्याघ्रातं स्यादुदरं धृति
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy