________________
.
११८
गच्छाचारपइण्णयं आदिशब्दादन्येऽपीदृशाः प्रकारा ग्राह्याः, तथा ये च मुनयो नाकीर्तिजनकाः चशब्दान्नावरणजनकाः नाशब्दजनकाः नाश्लाघाजनकाः, तत्र सर्वदिग्व्याप्यसाधुवादोऽकीर्तिः, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिग्व्याप्यसाधुवादोऽशब्दः, तत्स्थान एवासाधुवादोऽश्लाघेति, तथा नायशोजनकास्तत्रायशो-निन्दनीयतादि, तथा नाकार्यकारिणः-नैवासदनुष्ठानकर्तारः, तथा न प्रवचनोड्डाहकरा:-नैव प्रवचनमालिन्यकरा आवश्यकोक्तकाष्ठसाधुवत्, कण्ठगतप्राणशेषेऽपि कण्ठे गतः कण्ठगतः कण्ठगतश्चासौ प्राणशेषश्च कण्ठगतप्राणशेषः, तस्मिन्नपि मरणान्तकष्ठेऽपीत्यर्थः, ते बहुतरनिर्जराभाजो दोषाभाववन्तश्च भवन्तीति शेषः । चत्वार्यपि गाथाछन्दांसि ||५२ । ।५३ । ।५४ ।।५५।। अथ शिष्यस्वरूपप्रतिपादनद्वारेण गच्छस्वरूपमेव प्रतिपादयन्नाह
गुरुणा कज्जमकज्जे खरकक्कसदुट्ठनिट्ठरगिराए । भणिए तहत्ति सीसा भणंति तं गोयमा गच्छं ।।५६ ।। गुरुणा कार्याकार्ये खरकर्कशदुष्टनिष्ठुरगिरा। भणिते तथेति शिष्याः, भणन्ति स गौतम ! गच्छः ॥५६॥
व्याख्या-गुरुणा-आचार्येण कार्यं च अकार्यं च कार्याकार्यं तस्मिन्, मकारोऽलाक्षणिकः, खरकर्कशदुष्टनिष्ठुरगिराअत्यर्थनिष्ठुरतरवाण्या भणितेप्रवृत्तिनिवृत्त्यर्थं कथिते सति 'तह त्ति' तथेति-यद्यथा यूयं वदथ तत्तथैवेति यत्र गच्छे शिष्याः-विनेयाः भणन्ति-प्रतिपद्यन्ते इत्यर्थः, तं गच्छं हे गौतम! घण्टालालान्यायेन भणन्तीति क्रियाया अत्रापि संबन्धाद् भणन्तिप्रतिपादयन्ति तीर्थकरगणधरादय इति शेषः । गाथाछन्दः ||५६ ।। अथ गच्छस्वरूपाधिकारादेवेदमाह
दूरुज्झियपत्ताइसुममत्तए निप्पिहे सरीरे वि । जायमजायाहारे बायालीसेसणाकुसले ।।५७।।