SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११७ गच्छाचारपइण्णयं तत्तीव्राध्यवसानस्तस्मिन्नेवावश्यके तीव्र प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायिप्रयत्नविशेषलक्षणं अध्यवसानं यस्य स तथा, तदर्थोपयुक्तस्तस्यावश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः, तथा तदप्तिकरण: करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः, तद्भावनाभावितस्तस्यावश्यकस्य भावना तदनुष्ठानरूपा तया भावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन्नुपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्नेकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गपरिणामतः श्रमणी श्राविकयोरपि योज्यानि, तस्मात्तच्चित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावमाश्रित्यावश्यकं, भावश्चासावावश्यकं चेति वा भावावश्यकं, अत्राऽवश्यकरणादावश्यकत्वं, तदुपयोगपरिणामस्य सद्भावाद् भावत्वं, मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वान्नोआगमत्वं भावनीयं, ‘से तं' इत्यादि निगमनं, तदेवं स्वरूपत उक्तं भावावश्यकमित्यलं प्रसङ्गेन ! । अथ प्रकृतं तत्र संयमः सप्तदशभेदो यथा-'पंचासववेरमणं, पंचिंदियनिग्गहो कसायजओ । तियदंडविरमणाओ, सतरसहा संजमो होइ ||१|| तस्मिन्नुद्युक्ताःउद्यतास्तथा खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा निर्भत्सननिर्धाटनादिभिश्च मोऽलाक्षणिकः, ये मुनयो न प्रद्विषन्ति-न प्रद्वेषं यान्ति तत्र खरा-शूचीतुल्या, परुषा-बाणतुल्या, कर्कशा-कुन्ततुल्या, अनिष्टाकाकशब्दवत्, दुष्टा-सकोपव्याघ्रशब्दवत्, निष्ठुरा-प्रस्तरागमनवत्, एकाथिकान्येव वा प्रायो ग्रिविशेषणान्येतानि प्रस्तुतनिष्ठुरत्वार्थप्रकर्षप्रतिपादनपराणि, अथवाऽन्योप्यर्थो यथा सम्प्रदायमवगन्तव्यः । निर्भर्त्सनं-अगुल्यादिना तर्जनं, निर्धाटनं-वसतिगणादिभ्यो निष्काशनं,
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy