________________
गच्छाचारपइण्णयं पट:-प्रावरणं येषां ते तथा, उभयकालं प्रतिक्रमणायोपतिष्ठन्ते ३ । 'से किं तं भावावस्सयं ? २ दुविहं पं० तं० आगमतो य नोआगमओ य । से किं तं आगमओ भावावस्सयं ? २ जाणए उवउत्ते, से तं आगमओ भावावस्सयं ।' 'जाणए उवउत्ते' त्ति ज्ञायक उपयुक्तः आगमतो भावावश्यक इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तज्जनितसंवेगविशुद्ध्यमानपरिणामस्तत्रैवोपयुक्तः साध्वादिरागमतो भावावश्यकम् । ‘से किं तं नोआगमओ भावावस्सयं ? २ तिविहं पं० तं० लोइयं १ कुप्पावयणियं २ लाउत्तरियं ३ । से किं तं लोइयं भावावस्सयं ? २ पुव्वण्हे भारहं अवरण्हे रामायणं, से तं लोइयं भावावस्सयं १ । से कि तं कुण्पावयणियं भावावस्सयं ? २ जे इमे चरगचीरियजावपासंडत्था इज्जंजलिहोमजपोन्दुरक्कणमोक्कारमाइयाइं भावावस्सयाइं करेन्ति, से तं कुप्पावयणियं भावावस्सयं ।' यजनमिज्या-पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, 'उंदुरक्कं देवतादिपुरतो वृषभगजितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिवसनाथायेत्यादिकः २ । ‘से किं तं लोउत्तरियं भावावस्सयं ? २ जण्णं समणो वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अण्णत्थ कत्थइ मणं अकुव्वमाणे उवउत्ते एगमणे अविमणे जिणवयणधम्मरागरत्तमणे उभओ कालं आवस्सयं करेन्ति, से तं लोगुत्तरियं भावावस्सयं । से तं नोआगमओ भावावस्सयं । से तं भावावस्सयं ।' 'समणो' त्ति श्राम्यतीति श्रमणः-साधुः १, श्रमणी-साध्वी २, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावकः-श्रमणोपासकः ३, श्राविकाश्रमणोपासिका, वा शब्दाः समुच्चयार्थाः, तस्मिन्नेवावश्यके चित्तं सामान्योपयोगरूपं यस्येति स तच्चित्तः, तस्मिन्नेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्या शुभपरिणामरूपा यस्येति स तल्लेश्यः, तस्मिन्नेवाश्यके अध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः,