________________
११५
गच्छाचारपइण्णयं भुञ्जते न तु स्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डाः, भस्मोद्धूलितगात्राः पाण्डुराङ्गाः, गौतमो-ह्रस्वो बलीवईस्तेन गृहीतपादपतनादिविचित्रशिक्षणेन जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, गोचर्यानुकारिणो गोव्रतिकास्ते हि वयमपि तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिनिर्गच्छन्ति स्थिताभिस्तिष्ठन्ति आसीनाभिरुपविशन्ति भुञ्जानाभिस्तदेव तृणपत्रपुष्पफलादि भुजते, गृहस्थधर्म एव श्रेयानित्यभिधाय तद्यथोक्तचारिणो गृहिधर्माः, याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति ते धर्मचिन्तकाः, देवताक्षितीशमातापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धाः-वैनयिकाः, पुण्यपापपरलोकाद्यनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपाखण्डिभिः सह विरुद्धचारित्वात् वृद्धाःतापसाः, श्रावका:-ब्राह्मणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद्ब्राह्मणत्वभावात्, सिवः-व्यन्तरविशेषः, आर्या-प्रशान्तरूपा, दुर्गासैव महिषारूढा, तत्कुट्टनपरा कोट्टक्रिया, अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यते, उ० छगणादिना सं० दण्डपुञ्छनादिना आवर्षणं गन्धोदकादिना शेषं स्पष्टम् २ । ‘से किं तं लोगुत्तरियं दव्वावस्सयं ? २ जे इमे समणगुणमुक्कजोगी छक्कायणिरणुकंपा हया इव उद्दामा गया इव निरंकुसा घट्टा मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा जिणाणं अणाणाए सच्छंदं विहरिऊण उभओ कालमावस्सगस्स उवटुंति, से तं लोगुत्तरियं दवावस्सयं । से तं जाणगसरीरभवियसरीरवइरित्तं दवावस्सयं । से तं नोआगमओ दव्वावस्सयं । से तं दव्वावस्सयं ।' गजा इव-दुष्टद्विरदा इव निरंकुशा-गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः, 'घट्ट' त्ति येषां जो श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'मट्ठ' त्ति तैलोदकादिना येषां केशाः शरीरं वा मृष्टते तथैव मृष्टाः, 'तुप्पोट्ट' त्ति तुप्राः-मक्षिता मदनेन वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रोष्ठाः, तथा मलपरीषहसहिष्णुतादूरीकृतत्वात् पाण्डुरो-धौतः