________________
गच्छाचारपइण्णयं तथैतदपीत्यर्थः, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद् घोषसमं एकद्व्यादिभिरक्षीनं हीनाक्षरं न तथा अहीनाक्षरं, एकादिभिरक्षरैरधिकमत्यक्षरं न तथा अनत्यक्षरं, विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि-विपर्यस्तानि अक्षराणि यत्र तद्व्याविद्धाक्षरं न तथाऽव्याविद्धाक्षरं, उपलशकलाद्याकुलभूभागे लाङ्गलमिव स्खलति यत् तत्स्खलितं न तथा अस्खलितं, परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितं न तथा अमिलितं, अस्थानविरतिकं व्यत्यानेडितं न तथाऽव्यत्यानेडितं, सूत्रतो बिन्दुमात्रादिभिरन्यूनमर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्ण, उदात्तादिघोषैरविकलं प्रतिपूर्णघोषं, कण्ठौष्ठविप्रमुक्तं बालमूकभाषितवद्यदव्यक्तं न भवति, गुरुप्रदत्तया वाचनया उपगतं प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात्स्वयमेवाधीतमिति | ‘से णं' ति यस्यावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यकशास्त्रे वाचनया प्रच्छनया परावर्तनया धर्मकथया वर्त्तमानोऽपि अनुपयुक्तत्वादागमतो द्रव्यावश्यकं 'नो अणु' अनुप्रेक्षयाग्रन्थार्थानुचिन्तनरूपया तत्र वर्त्तमानो न द्रव्यावश्यकं अनुप्रेक्षाया उपयोगमन्तरेणाभावात्, 'अवत्थु त्ति न सम्भवति । ‘से किं तं नोआगमओ दव्वावस्सयं ? नोआगमओ दव्वावस्सयं तिविहं पं० २० जाणगसरीरदव्वावस्सयं १ भवियसरीरदव्वावस्सयं २ जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं ३ । से किं तं जाणगसरीरदव्वावस्सयं ? जाणगशरीरदव्वावस्सयं आवस्सए त्ति पयत्थाहिगारजाणगस्स जं सरीरयं ववगयचुयचावियचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धिसिलायलगयं वा पासित्ता णं कोइ वएज्जा-अहो णं इमेणं सरीरसमुस्सएणं जिणोवइटेणं भावेणं आवस्सए त्ति पयं आघवियं पन्नवियं परूवियं दंसियं निदंसियं उवदंसियं, जहा को दिलुतो ? अयं महुकुंभे आसि अयं घयकुंभे आसि, से तं जाणगसरीरदव्वावस्सयं'