________________
११३
गच्छाचारपइण्णयं आवश्यकशास्त्रार्थाधिकारज्ञशरीरं द्रव्यावश्यकं भवति, व्यपगतच्युतच्यावितत्यक्तदेहं, व्यपगतं-अचैतन्यलक्षणं पर्यायान्तरं प्राप्तं, च्युतंउच्छ्वासनिःश्वासपरिभ्रष्टं, च्यावितं-बलीयसा आयुःक्षयेण परिभ्रंशितं, त्यक्तो देहः-आहारपरिणतिजनितोपचयो येन तत् त्यक्तदेहं, 'जीववि०' जीवरहितं, शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यागतं, संस्तारोलघुकोऽर्द्धतृतीयहस्तमानस्तं गतं, नैषेधिकी-शबपरिस्थापनभूमिस्तत्र गतं, यत्र साधवस्तपापरिकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतियत्स्यन्ते च तत्सिद्धिशिलातलमुच्यते तत्र गतं, अहोशब्दो दैन्यविस्मयामन्त्रणेषु वर्तते स चेह त्रिष्वपि घटते, तथा हि-अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पार्श्वस्थितमामन्त्रयमाणस्यामन्त्रणे, अनेन शरीरमेव पुद्गलसङ्घातत्वात् समुच्छ्रयस्तेन जिनोषदिष्टेन-तीर्थकराभिमतेन भावेन-कर्मनि रणाभिप्रायेण आवश्यकपदाभिधेयं शास्त्रं, आघ० गुरोःसकाशादागृहीतम्, पन्न० सामान्यतो विनेयेभ्यः कथितम्, परू० तेभ्य एव सूत्रार्थकथनतः, 'दंसि' प्रत्युपेक्षणादिक्रियादर्शनतः, इयं क्रिया एभिरक्षरैरत्रोपात्ता इत्थं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमिति भावः, निदं० कथञ्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनः दर्शितं, उवदं० सकलनययुक्तिभिः, अत्रातीतपर्यायानुवृत्त्यभ्युपगमपरनयाऽनुवृत्त्याऽतीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकम् शय्यादिगतं तच्छरीरं स्यात् । यद्यत्रार्थे कश्चिद् दृष्टान्तः स्यादिति विकल्प्य पृच्छति-यथा कोऽत्र दृष्टान्तः ? इति पृष्टे सत्याहयथा अयं मधुकुम्भ आसीदित्यादि, एतदुक्तं भवति-यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधारपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भोऽयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्त्तते, तथाऽऽवश्यक कारणत्वपर्यायेऽतिक्रान्तेऽप्यतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यते इति भावः १ । ‘से किं तं भवियसरीरदव्वावस्सयं ? २ जे जीवे जोणीजम्मणनिक्खंते