________________
गच्छाचारपइण्णय सद्भावस्थापना साध्वाद्याकारस्य तत्र सद्भावात् । अक्षादिषुत्वनाकारवती असद्भावस्थापना साध्वाद्याकारस्य तत्रासद्भावात् । 'नाम ठवणाणं को पइविसेसो ? नामं आवकहियं ठवणा इत्तरिया वा होज्जा आवकहिया वा हवेज्जा से तं ठवणावस्सयं २ । से किं तं दव्वावस्सयं ? दवावस्सयं दुविहं पं० तं० आगमओ य १ नोआगमओ य २ ।' आगमत आगममाश्रित्य १ । ‘से किं तं आगमओ दव्वावस्सयं ? २ जस्स णं आवस्सए त्ति पयं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए नो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमितिक? | णेगमस्स णं एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, दोन्नि अणुवउत्ता आगमओ दोन्नि दवावस्सयाइं, तिन्नि अणुवउत्ता आगमओ तिन्नि दव्यावस्सयाई, एवं जावइया अणुवउत्ता आगमओ तावइयाइं दव्वावस्सयाइं १ । एवमेव आगमओ ववहारस्स वि २ । संगहस्स णं एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वावस्सयं वा दव्वावस्सयाणि वा से एगे दव्वावस्सए ३ । उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं पुहत्तं नेच्छइ ४ । तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ? जइ जाणए अणुवउत्ते ण भवइ जइ अणुवउत्ते जाणए ण भवइ, तम्हा नत्थि आगमओ दवावस्सयं, से तं आगमओ दव्वावस्सयं ७ ।' सूत्रादित आरभ्य पठनक्रियया यदन्तं नीतं तत् शिक्षितं, तदेवाविस्मरणतश्चेतसि स्थितत्वात् स्थितं, परावर्त्तनं कुर्वतः परेण वा क्वचित्पृष्टस्य यच्छीघ्रमागच्छति तज्जितं, विज्ञातश्लोकपदवर्णादिसङ्ख्यं मितं, परिसमन्तात् सर्वप्रकारैर्जितं परिजितं-परावर्त्तनं कुर्वतो यत् क्रमेणोत्क्रमेण वा समागच्छति, नामअभिधानं तेन समं नामसमं यथा स्वनाम कस्यचिच्छिक्षितं स्थितं जितं मितं परिजितं भवति