________________
गच्छाचारपइण्णय
१०८ ये च नाकीर्तिजनका नायशोजनका नाकार्यकारिणश्च । न प्रवचनोड्डाहकराः कण्ठगतप्राणशेषेऽपि ॥५५॥
आसां व्याख्या - गुरोश्छन्दानुवर्तिनः-गुरोरभिप्रायानुयायिनः सुविनीताःशोभनविनययुक्ताः जिताः-पराजिताः परीषहाः शीतोष्णरूपाः यैस्ते जितपरीषहाः । यदुक्तमाचाराङ्गनिर्युक्तौ-'इत्थीसक्कारपरीसहा य दो भावसीयला एए । सेसा वीसं उण्हा, परीसहा होति णायव्वा ।।१।। जे तिव्वपरीणामा, परीसहा ते भवंति उण्हाओ । जे मंदपरीणामा, परीसहा ते भवे सीया ||२|| धिया राजन्त इति धीराः, नापि स्तब्धा-नैवाहंकारपराः, नापि लुब्धा-नैवाहारोपधिपात्रादिषु लोलुपाः, नापि गौरविला-नैव ऋद्धि १ रस २ सात ३ गौरव-त्रिकान्विताः, नापि विकथाशीला-नैव विरुद्धकथाकथनस्वभावाः । क्षान्ताः-क्षमायुक्ताः स्कन्दकाचार्यशिष्यवत्, दान्ताःदमितेन्द्रिया धन्यानगारवत्, गुप्ता-गुप्तेन्द्रियाः ज्ञाताधर्मकथाङ्गोक्तकूर्मवत्, मुक्ताः-निर्लोभतायुक्ता जम्बूस्वामिवज्रस्वाम्यादिवत्, वैराग्यमार्गमालीनावैराग्यपथमाश्रिता गजसुकुमालातिमुक्तककुमारादिवत्, दशविधसामाचार्युद्यतास्तत्र श्रीउत्तराध्ययनोक्ता दशविधसामाचारी चेयम् 'आवस्सिया नाम पढमा १, बिइया होइ निसीहिया २ | आपुच्छणा य तइया ३, चउत्थी पडिपुच्छणा ४ ||१|| छंदणा पंचमा होइ ५, इच्छाकारो य छट्ठओ ६ । सत्तमो मिच्छकारो य ७, तहक्कारो य अट्ठमो ८ ।।२।। अब्भुट्ठाणं च नवमा ९, दसमा उवसंपया १० । एसा दसंगा साहूणं, सामाचारी पवेदिया ।।३।। गमणे आवस्सियं कुज्जा १, ठाणे कुज्जा निसीहियं २ । आपुच्छणा सयंकरणे ३, परकरणे पडिपुच्छणा ४ ||४|| छंदणा दव्वजाएणं ५, इच्छाकारो य सारणे ६ । मिच्छाकारो य जिंदाए ७, तहक्कारो पडिस्सुए ८ ||५|| अब्भुट्ठाणं गुरुपूया ९, अच्छणे उवसंपया १० । एवं दुपंचसंजुत्ता, सामायारी पवेदिया ||६|| ग० आवश्यकेषु-अप्रमत्ततया अवश्यकर्त्तव्यव्यापारेषु सत्सु भवा आवश्यकी तां गमने कुर्यात् १, स्थाने