________________
१०७
गच्छाचारपइण्णयं
महानुभावः, ‘तत्थ' त्ति तत्र गच्छे वसतां - वासं कुर्वतां निर्ज्जरा-कर्म्मक्षयरूपा भवतीति शेष; किम्भूता विपुला - महती कुत इत्याह-यतस्तत्र वसतां स्मारणावारणाचोदनादिभिः मोऽलाक्षणिकः न दोषप्रतिपत्तिः न दोषावाप्तिर्भवति । तत्र विस्मृते क्वचित्कर्त्तव्ये भवतेदं न कृतमिति स्मारणा, अकर्त्तव्यानां निषेधो वारणा, संयमयोगेषु स्खलितस्यायुक्तमेतद्भवादृशां विधातुमित्यादिस्वरमधुरवचनैः प्रेरणं चोदना, आदिशब्दात्तथैव पुनः पुनः प्रेरणरूपा प्रतिचोदनेति । गाथाछन्दः । । ५१ ।। पूर्वं गच्छे वसतां बह्वी निर्ज्जरा दोषाप्रतिपत्तिश्चोक्ता । अथ सा किंविधानां स्यादिति गाथाचतुष्टयेनाह
"
गुरुण छंदणुवत्ती, सुविणीए जिस धीरे । नवि थद्धे नवि लुद्धे, नवि गारविए विगहसीले ।। ५२ ।। गुरो:छन्दानुवर्तिनः, सुविनीता जितपरीषहा धीराः । नापि स्तब्धा नापिलुब्धा, नापि गौरविला विकथाशीलाः ॥५२॥
खंते दंते गुत्ते, मुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी, आवस्सगसंजमुज्जुत्ते ।। ५३ ।। क्षान्ता दान्ता गुप्ता, मुक्ता वैराग्यमार्गमालीनाः । दशविधसामाचारी - आवश्यक - संयमोद्यताः ॥ ५३ ॥
खरफरुसकक्कसाए, अणिट्टदुट्टाइ निट्टरगिराए । निब्भच्छणनिद्धाडण - माईहि न जे पउस्संति ।। ५४ ।।
खरपरुषकर्कशया अनिष्टदुष्टया निष्ठुरगिरा । निर्भत्सननिर्धाटनादिभिः न ये प्रद्विषन्ति ॥ ५४ ॥
जे अन अकित्तिजणए, नाजसजणए नकज्जकारी अ । न पवयणुहाहकरे, कंठग्गयपाणसेसे वि ।। ५५ ।।