________________
गच्छाचारपइण्णयं
१०६
कुसीलसंसग्गीए विप्पहियाए एवइयं अंतरं भवति इति सुमतिसम्बन्ध इति । विषमाक्षरेति गाथाछन्दः ।।४९।। अथ गच्छस्यागच्छत्वं स्यात् तथाह
पजलंति जत्थ धगधग-धगस्स गुरुणा वि चोइए सीसा । रागदोसेण विअणु-सएण तं गोयम ! न गच्छं ।। ५० ।। प्रज्वलन्ति यत्र धगधगायमानं गुरुणापि नोदिते शिष्याः । रागद्वेषेणापि अनुशयेन स गौतम ! न गच्छः ॥५०॥
व्याख्या प्रज्वलन्ति अग्निवत् यत्र गच्छे 'धगधगधगस्स' त्ति अनुकरणशब्दोऽयं धगद्धगिति धगधगायमानं यथा स्यात्तथेत्यर्थः, प्राकृतत्वाच्चैवं प्रयोगः, गुरुणा- आचार्येणापिशब्दादुपाध्यायादिनाऽपि 'चोइए ' त्ति भवादृशामयुक्तमेतदित्यादिना प्रकारेण नोदिते सति के शिष्याःअन्तेवासिनः केन प्रज्वलन्ति रागद्वेषेण अत्र समाहारद्वन्द्वादेकवचनं, तथाऽनुशयेनापि - हा कथं निरन्तरातिदुःसहदुःखसन्तापव्यापव्याकुलीकृतान्तःकरणाः प्रव्रज्योररीकृता मयेत्यादि पश्चात्तापकरणेन चेत्यर्थः, अपिशब्दः चशब्दार्थे, यद्वा रागद्वेषेण किम्भूतेन ? 'विअणुसपण' त्ति विगतोऽनुशयः-पश्चात्तापो यत्र तद् व्यनुशयं तेन पश्चात्तापरहितेनेत्यर्थः, हे गौतम ! स गच्छो न भवतीति । गाथाछन्दः ||५० ।। अथ गच्छे वसतां बह्वी निर्ज्जरा स्यादित्याह
-
गच्छो महाणुभावो, तत्थ वसंताण निज्जरा विउला । सारणवारणचो अण-माईहि न दोसपडिवत्ती ।। ५१ ।।
गच्छो महानुभावस्तत्र वसतां निर्जरा विपुला । स्मारणावारणाचोदनादिभिर्न दोषप्रतिपत्तिः ॥५१॥
व्याख्या - गच्छः सुविहितमुनिवृन्दरूपः महाननुभावः- प्रभावो यस्यासौ