________________
गच्छाचारपइण्णयं
९४
।।४।।' इत्यादि उपदेशमालायामिति । विषमाक्षरेति गाथाछन्दसी ||४६||४७|| अथ गाथाद्वयेनागीतार्थसङ्गं सर्वथा त्याजयन्नाह -
अगीयत्थकुसीलेहिं संगं तिविहेण वोसिरे ।
"
मुरकमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ।।४८ ।।
-
अगीतार्थकुशीलैः सङ्गं त्रिविधेन व्युत्सृजेत् । मोक्षमार्गस्येमे विघ्नाः पथि स्तेना यथा ॥ ४८ ॥
व्याख्या-अगीतार्थाश्च कुशीलाश्च तैरगीतार्थकुशीलैरत्र कुशीलग्रहणात् तुलामध्यन्यायेन सभेदपार्श्वस्थावसन्नसंसक्तयथाछन्दैश्च सह सङ्गं - मिलनं त्रिविधेन-मनोवाक्कायलक्षणेन योगेन करणकारणानुमतिलक्षणेन करणेन वा व्युत्सृजेत् त्यजेदित्यर्थः । तथा चोक्तं महानिशीथषष्ठाध्ययने‘वासलक्खंपि सूलीए, संभिन्नो अच्छियामुहो । अगीयत्थेण समं, एक्कं खणद्धं पि न संवसे ।।9 || ननु स्वगुरोः पार्श्वस्थादित्वप्राप्तस्य किं क्रियते उच्यते आगमोक्तविधिना त्यागो विधीयते यदुक्तमुपदेशमालायां ३७६ गाथाहेयोपादेयवृत्तौ-‘गीयत्थं संविग्गं, आयरियं मुयइ वलइ गच्छस्स । गुरुणो य अणापुच्छा, जं किंचि वि देइ गिण्हइ वा ।।१।।' गीतार्थंअधितागमं संविग्नं मोक्षाभिलाषिणमाचार्यं निजगुरुं मुञ्चति - निष्प्रयोजनं परित्यज्य गच्छतीत्यर्थः । इह च गीतार्थसंविग्नग्रहणमगीतार्थासंविग्नं पुनरागमप्रतिपादितक्रमेणात्मानं मोचयित्वा मुञ्चतोऽपि न दोष इति ज्ञापनार्थमिति । तथा स्थानाङ्गतृतीयस्थानकेऽप्युक्तं, यथा-' एवं विजहणा'
अस्य वृत्तिः एवमिति आचार्यत्वादिभेदेन त्रिधैव विहानं-परित्यागस्तच्चाचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षणार्थमाचार्यान्तरोपसम्पत्त्या भवतीत्यादि, यतो मोक्षमार्गस्य - निर्वाणपथस्येमे पूर्वोक्ता 'विग्घ' त्ति विघ्नाः कारणे कार्योपचारात् विघ्नकरा इत्यर्थः । दृष्टान्तमाह-यथा पथिमार्गे 'तेणगे' त्ति चौरा विघ्नकरा भवन्तीति । विषमाक्षरेति गाथाछन्दः || ४८ ||