________________
९३
गच्छाचारपइण्णयं गाथाछन्दसी ।।४४।४५।। अथ गीतार्थोपदेशः सर्वोऽपि दुःखावहो भवतीत्याह
अगीयत्थस्स वयणेणं, अमियंपि न घुटए । जेण नो तं भवे अमयं, जं अगीयत्थदेसियं ।।४६।। अगीतार्थस्य वचनेनामृतमपि न पिबेत् । येन न तद् भवेदमृतं यदगीतार्थदेशितम् ॥४६।। परमत्थओ न तं अमयं, विसं हालाहलं खु तं । न तेण अजरामरो हुज्जा, तक्खणा निहणं वए ।।४।। परमार्थतो न तदमृतं, विषं हालाहलं खलु तत् । न तेनाजरामरो भवेत्, तत्क्षणात् निधनं व्रजेत् ॥४७॥
अनयोर्व्याख्या-अगीतार्थस्य पूर्वोक्तप्रथमचतुर्थभङ्गतुल्यस्य वचनेन अमृतमपि 'न घुटए' त्ति न पिबेत् अगीतार्थोपदेशेनामृतवद् दृश्यमानं सुन्दरमप्यनुष्ठानं न कुर्यादिति परमार्थः, येन कारणेन न तदमृतं भवेत् । यदगीतार्थदेशितं-अगीतार्थोपदिष्टं एतदेव विशेषेणाह परमार्थतः-तत्त्वतो न तदमृतं न गुणकारीत्यर्थः । तद्विषं हालाहलं, खु-निश्चितं न तेन अजरामरो-मोक्षसुखभाग् भवेत, तत्क्षणादेव निधनं-विनाशं अनन्तजन्ममरणलक्षणं व्रजेत्-प्राप्नुयात् । अगीतार्थोपदेशेनामृतपानस्यापि अनन्तसंसारहेतुत्वात् । उक्तं च 'जं जयइ अगीयत्थो, जं च अगीयत्थनिस्सिओ होइ । वट्टावेइ य गच्छं, अणंतसंसारिओ होइ ।।१।। कह उ जयंतो साहू, वट्टावेइ य जो उ गच्छं तु | संजमजुत्तो होउं, अणंतसंसारिओ भणिओ ।।२।। दव्वं खित्तं कालं, भावं पुरिसपडिसेवणाओ य । न वि जाणइ अगीओ, उस्सग्गववाइयं चेव ।।३।। जहठियदव्वं न याणइ, सच्चित्ताचित्तमीसियं चेव । कप्पाकप्पं च तहा, जोगं वा जस्स जं होइ