________________
सेशब्द आत्मनिर्देशे, सोऽहमेवमुपलब्धानेकाप्कायतत्त्ववृत्तान्तो ब्रवीमि'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिता:-पूतरकमत्स्यादयो यानुदकारम्भप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धः-प्रागुक्तमुदकशस्त्रं समारभमाणोऽन्यानप्यनेकरूपान् जन्तून विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह- ‘सन्ति पाणा' इत्यादि पूर्ववत्, कियन्तः पुनस्त इति दर्शयति-'जीवा अणेगा' पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थं ततश्चेदमुक्तं भवति-एकैकस्मिन् जीवभेदे उदकाश्रिता अनेके असंख्येया: प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरषास्ते तनिश्रितप्रभूतजीवसत्त्वव्यापत्तिकारिणो द्रष्टव्याः ४ ।। शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयतिइहं च खलु भो ! अणगाराणं उदयजीवा वियाहिया ॥ सू० २४॥
खलुशब्दोऽवधारणे ‘इहैव' ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटके 'अनगाराणां' साधूनाम् ‘उदकजीवा' उदकरूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणकभ्रमरकमत्स्यादयो जीवा व्याख्याताः, अवधारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः ।। यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातभाज: साधव इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमप्कायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च, तत्र योऽचित्तोऽप्काय-स्तेनोपयोगविधि: साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्त: ? किं स्वभावादेवाहोश्विच्छस्रसम्बन्धात् ?, उभयथाऽपीति, तत्र य: स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमन:पर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नु श्रूयते-भगवता किल श्रीवर्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपट लत्रसादिरहितो महाह्रदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थं
श्री आचारांग सूत्रम्
(०८४)