________________
च, तथाहि-सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरुपमेवाचित्तमिति व्यवहरति जलं, न पुनर्निरिन्धनमेवेति, अतो यद्वादशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आहसत्थं चेथ अणुवीइ पासा, पुढो सत्थं(ऽपासं) पवेइयं ।।सू० २५॥
शस्यन्ते -हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं, तच्चोत्सेचनगालनउपकरणधावनादि स्वकायादि च वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणा: शस्त्रं, तथाहि-अग्निपुद्गलानुगतत्वादीषत्पिङ्गलं जलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो विरसं स्पर्शत उष्णं तच्चोद्वृत्तत्रिदण्डम्, एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्बन्धात् स्तोकमध्यबहुभेदात्, स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या, एवमेतत्, त्रिविधं शस्त्रं, चशब्दोऽवधारणार्थः, अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्य, नान्यथेति, ‘एत्थ'त्ति एतस्मिन् अप्काये प्रस्तुते 'अनुविचिन्त्य' विचार्य इदमस्य शस्त्रमित्येवं ग्राह्य, ‘पश्ये' त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रमप्कायस्यास्तीति प्रतिपादितम्, एतदेव दर्शयति- पुढो सत्थं पवेदितं' 'पृथग्' विभिन्नमु-त्सेचनादिकं शस्त्रं प्रवेदितम्' आख्यातं भगवता, 'पाठान्तरं वा पुढोऽपासं पवेदितं' एवं पृथग्विभिन्नलक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं प्रवेदितम्-आख्यातं भगवता, अपाश:अबन्धनं शस्त्रपरिणामितोदकग्रहणमबन्धनमाख्यातमितियावद् ।। एवं तावत्साधूनां सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसां परिभोगः प्रतिपादितः, ये पुनः शाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमत एवाप्कायं विहिंसन्ति तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेवं तेषां, किमन्यदित्यत आह. अ दुवा अदिनादाणं ।।सू० २६ ॥
श्री आचारांग सूत्रम्
(०८५)