________________
आयाणीयं समुट्ठाय सोच्चा भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विख्वस्वेहिं सत्थेहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिं-सइ ३। से बेमि संति पाणा उदयनिस्सिया जीवा अणेगा ४।।सू० २३ ।।
'लज्जमानाः' स्वकीयं प्रव्रज्याभासं कुर्वाणा: यदिवा सावद्यानुष्ठानेन लज्जमाना:-लज्जां कुर्वाणा: 'पृथग्'विभिन्ना: शाक्योलूककणभूक्कपिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुबव्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं ? येनैवं प्रदर्श्यन्त इति दर्शयतिअनगारा वयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदेतत्, काक्वा दर्शयति-'विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकायभेदभिन्नैरुदककर्म समारभन्ते, उदककर्मसमारम्भेण च उदके शस्त्रं उदकमेव वा शस्त्रं समारभन्ते, तच्च समारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीविविधं हिनस्ति १, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा अस्यैव जीवितव्यस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं यत् करोति तद्दर्शयति-स स्वयमेवोदक-शस्त्रं समारभते अन्यैश्चोदकशस्त्रं समारम्भयति अन्यांश्चोदकशस्त्रं समारभममाणान् समनुजानीते, तच्चोदकसमारम्भणं तस्याहिताय भवति, तथा तदेवाबोधिलाभाय भवति २, स एतत्सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थायअभ्युपगम्य श्रुत्वा भगवतोऽनगाराणं वाऽन्तिके इहैकेषां साधूनां यत् ज्ञातं भवति तदर्शयति- एषः' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एष खलु मार एष खलु नरक इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतत्प्रागवत् व्याख्येयं ३, पुनरप्याह-‘से बेमी'त्यादि,
। आचारांग सूत्रम्
(०८3)