________________
विषयकषायादिभिः ‘अस्मिन्' पृथिवीकाये विषयभूते सामर्थ्यात पृथीविकायं 'परितापयन्ति' परिसमन्ता त्तापयन्तिपीडयन्तीत्यर्थः, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवालोकशब्दः प्रत्येकभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरालॊऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः (कश्चित्तु अपरो दुःसम्बोध: नास्तीदं प्र० ।) तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखाप्तयेऽस्मिन्-पृथिवीकायलोके विषयभूते पृथीविकायं नानाविधैरुपायैः ‘परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीति सूत्रार्थः
॥१४ ।। ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येत्परिहर्तुकाम आह
संति पाणा पुढो सिया लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवयमाणा, जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभेमाणो अणेगरूवे पाणे विहिंसइ । _ 'सन्ति' विद्यन्ते ‘प्राणा:' सत्त्वा ‘पृथग्' पृथग्भावेन, अङ्गुलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता वा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह- 'लज्जमाणा पुढो पास'त्ति, लज्जा द्विविधा-लौकिकी लोकोत्तरा च, तत्र लौकिकी स्नुषासुभटादेः श्वशुरसङ्गामविषया, लोकोत्तरा सप्तदशप्रकार: संयमः, तदुक्क्तम्-'लज्जा दया संजम बंभचेर'मित्यादि, लजमाना:-संयमानुष्ठानपरा:, यदिवापृथिवीकायसमारम्भरूपादसंयमानुष्ठानाल्लज्जमाना: पृथगि' ति प्रत्यक्षज्ञानिन: परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति । कुतीर्थिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह- अणगारा' इत्यादि, न विद्यतेऽगारं-गृहमेषामित्यनगारा-यतयः स्मो वयमित्येवं प्रकर्षेण वदन्तः
श्री आचारांग सूत्रम्
(०६८)