SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ॥१॥' (रागद्वेषकषायैरिन्द्रियैश्च पञ्चभिः । द्विधा मोहनीयेन वा आर्ताः संसारिणो जीवाः ॥१॥) यदि वा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽर्तः, कः पुनरेवंविध इत्यत्राह-लोकयतीति लोक:-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदाप्रशस्तभावोदयवर्त्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स सर्वोऽपि परिघुनो नाम परिपेलवो निस्सार: औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधाद्रव्यभावभेदात्, तत्र सचित्तद्रव्यपरिङ्नो जीर्णशरीर: स्थविरक: जीर्णवृक्षो वा, अचित्तद्रव्यपरिघुनो जीर्णपटादिः, भावपरियून औदयिकभावोदयात्प्रशस्तज्ञानादिभावविकल:, कथं विकल:?, अनन्तगुणपरिहाण्या, तथाहि-पञ्चचतुस्त्रिद्वयेकेन्द्रिया: क्रमशो ज्ञानविकला:, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तं च-'सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः ॥१॥ तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोदृग्भिः ॥२॥ स च विषयकषायातः प्रशस्तज्ञानघून: किमवस्थो भवतीति दर्शयति-'दुस्संबोध' इति, दुःखेन सम्बोध्यतेधर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदि वा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवम् ?, यतः 'अवियाणए'त्ति विशिष्टावबोधरहितः, स चैवंविध: किं विदध्यादित्याह'अस्मिन्' पृथिवीकायलोके प्रव्यथिते' प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्रागीते वा 'व्यथ भयचलनयो' रितिकृत्वा व्यथितं भीतमिति, 'तत्थ तत्थे'ति तेषु तेषु कृषिखननगृहकरणादिषु पृथग्'विभिन्नेषु कार्येषूत्पन्नेषु ‘पश्ये'ति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बह्वादेशो भवतीति, 'आतुरा' श्री आचारांग सूत्रम् (०६७)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy