________________
प्रवदन्त इति, 'एके' शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपरा: क्षपितकषायाज्ञानतिमिरा 'इति' एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, यथा- कश्चिदत्यन्तशुचिर्वोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याच्चर्मास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थं सङ्ग्रहं कारितवान्, तथा च तेन शुच्यभिमानमुद्वहताऽपि किं तस्य परित्यक्तम् ?, एवमेतेऽपि शाक्यादयोऽनगारावादमुद्वहन्ति, न चानगारगुणेषु मनागपि प्रवर्त्तन्ते, न च गृहस्थचर्या मनागप्यतिलङ्घयन्तीति दर्शयति- 'यद्' यस्माद् 'इम' मिति सर्वजनप्रत्यक्षं पृथिवीकायं 'विरूपरूपैः ' नानाप्रकारैः 'शस्त्रैः' हलकुद्दालखनित्रादिभिः पृथिव्याश्रयं कर्म्मक्रियां समारंभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं 'समारंभमाणो' व्यापारयन् पृथिवीकायं नानाविधैः शस्त्रैर्व्यापादयन् ‘अनेकरूपान्’ तदाश्रितानुदकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधैरुपायैर्व्यापादयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तु - वैरिणामयतितत्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाक्कायलक्षणां प्रवृत्तिं दर्शयितुमाह
तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चैव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं स सयमेव पुढविसत्थं समारंभइ, अण्णेहिं वा पुढविसत्थं समारं - भावेइ, अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ ।। सू० १५ ।।
तत्र पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे 'भगवता ' श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवतिभगवतेदमाख्यातं-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकायं समारभन्ते तानि चामूनि - अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थं, तथा जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं च स सुखलिप्सुर्दुःखद्विट् स्वयमात्मनैव पृथिवीशस्त्रं समारभते, तथाऽन्यैश्च पृथिवीशस्त्रं समारम्भयति, पृथिवीशस्त्रं समारभमाणानन्यांश्च
श्री आचारांग सूत्रम्
"
(Ose)