________________
इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगारा: प्रव्रजिताः, न च तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्त्तन्ते तद्दर्शयति-यतस्तेऽहर्निशं पृथिवीजन्तुविपत्तिकारिणो दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम्, अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम्, अतश्च यतिगुणकलापशून्या न वाङ्मात्रेण युक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, अनेन प्रयोग: सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्द्धन हेतुः, उत्तरगाथार्द्धन साधर्म्यदृष्टान्तः स चायं प्रयोग:-कुतीर्थिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्त्तन्ते, पृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्तन्ते, गृहस्थवत् ।। साम्प्रतं दृष्टान्तगर्भ निगमनमाह
अणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निद्दोसत्ति य मइला विरइदुगंछाइ मइलतरा ॥१०॥
'अनगारवादिनो' वयं यतय इति वदनशीला: पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽत: ‘अगारिसमा' गृहस्थतुल्या भवन्ति, अभ्युच्चयमाह-सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्सारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात् 'मलिना:' कलुषितहृदया:, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानात्मिकाया विरते: जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भवतीति ।। एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयमेवोपात्तत्वेन तद्व्याख्यानस्य न्याय्यत्वात्, तच्चेदं सूत्रम् ‘लज्जमाणा पुढो पास अरगारा मोत्ति एगे पवयमाणे'त्यादि ।। अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थमाह
केई सयं वहंति केई अन्नेहिं उ वहावंती । । केई अणुमन्नंती पुढविकायं वहेमाणा ॥१०१।। स्पष्टा, तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति
श्री आचारांग सूत्रम्
(०६४)