________________
दर्शयितुमाह
जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए । अनियाए अ नियाए दिस्से य तहा अदिस्से य ॥१०२॥
य: पृथ्वीकार्य समारभते' व्यापादयति स: ‘अन्यानपि' अप्कायद्वीन्द्रियादीन् 'समारभते' व्यापादयति उदुम्बरवटफलभक्षणप्रवृत्त: तत्फलान्तः प्रविष्टत्रसजन्तुभक्षणवदिति, तथा अणियाए य नियाईत्ति अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च दृश्यान्' दर्दुरादीन् ‘अदृश्यान्' पनकादीन् 'समारभते' व्यापादयतीत्यर्थः । एतदेव स्पष्ट-तरमाह
पुढविं समारभंता हणंति तन्निसिए य बहुजीवे ।
सुहुमे य बायरे य पज्जत्ते य अपज्जत्ते ॥१०३ ।। स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ।। विरतिद्वारमाह
एयं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं । तिविहेण सव्वकालं मणेण वायाए कारणं ॥१०४॥
- 'एवमि'त्युक्तप्राकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं-पृथिवीसमारम्भाव्युपरमन्ति, ते ईदृक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति, 'त्रिविधेने'ति कृतकारितानुमतिभि: ‘सर्वकालं' यावज्जीवमपि मनसा वाचा कायेनेति ।। अनगारभवने उक्तशेषमाह
गुत्ता गुत्तीहिं सव्वाहिं समिया समिईहिं संजया । जयमाणगा सुविहिया एरिसया हुति अणगारा ॥१०५।।
तिसृभिर्मनोवाक्कायगुप्तिभिर्गुप्ता:, तथा पञ्चभिरीर्यासमित्यादिभिस्समिता:, सम्यक्-उत्थानशयनचङ्क्रमणादिक्रियासु यता: संयता: 'यतमानाः' सर्वत्र प्रयत्नकारिणः, शोभनं विहितं-सम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईदृक्षाः अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवी
श्री आचारांग सूत्रम्
(०१५)