SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उच्चारे पासवणे एय तु समासओ सत्थं ॥९५ ।। तत्र हलकुलिकविषकुद्दालालि-त्रकमृगश्रृङ्गकाष्ठाग्न्युच्चार-प्रश्रवणादिकमेतत् समासत:' संक्षेपतो द्रव्यशस्त्रम् ।। विभागद्रव्यशस्त्रप्रतिपादनायाह किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थ भावे अ असंजमो सत्थं ॥१६॥ किञ्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किञ्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति । तच्च सर्वमपि द्रव्यशस्त्रं, भावे पुन: ‘असंयमः' दुष्प्रयुक्ता मनोवाक्काया: शस्त्रमिति ।। वेदनाद्वारमाह पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं । जह हुति नरा दुहिया पुढविक्काए तहा जाण ॥९७।। ___ यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा: दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि ।। यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह नत्थि य सिअंगुवंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिं चऽतिवायए पाणे ।।९८ ।। पूवार्द्धं गतार्थं, केषाञ्चित्पृथिवीकायिकानां तदारम्भिण: पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति । तथा हि भगवत्यां दृष्टांत उपात्तो यथा-चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेन पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ।। वधद्वारमाह.. पवयंति य अणगारा ण य तेहि गुणेहिं जेहिं अणगारा । पुढविं विहिंसमाणा न हु ते वायाहि अणगारा ॥१९॥ । आचारांग सूत्रम् (०६3)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy