________________
नारकादिसकलदुःखहेतू-भूतया स्वर्गापवर्गमार्गार्गलया अवश्यमपायिन्या परमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतो ( फलया चेत्यतो) विहायैनां सकलसुखसाधनं धर्मं कर्त्तुमुद्यतः, धमरुचिस्तदा कर्ण्योक्तवान्-यद्येवं किमहं तातस्यानिष्टो ? येनैवंभूतां सकल-दोषाश्रयिणीं मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूर्वा केनचित्ता (एकेन ता) पसेनोद्धुष्टम् - यथा भो भोः तापसाः ! श्वोऽनाकुट्टिर्भविता, अतोऽद्यैव समित्कुसुमकुशकन्दफलमूलाद्याहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टः-तात ! केयमनाकुट्टिरिति, तेनोक्तम् - पुत्र ! कन्दफलादी (लतादी) नामच्छेदनं, तद्ध्यमावास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत् - यदि पुनः सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च तेनाभिहिताः- किमद्य भवतामनाकुट्टिर्न सञ्जाता ? येनाटवीं प्रस्थिताः, तैरप्यभिहितम् -'यथाऽस्माकं यावज्जीवमनाकुट्टि’रित्यभिधायातिक्रान्ताः साध्वः, तस्य च तदाकर्ण्यहापोह - विमर्शेन जातिस्मरणमुत्पन्नं- यथाऽहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्याजातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति । परव्याकरणे त्विदमुदाहरणम् - गौतमस्वामिना भगवान्वर्द्धमानस्वामिना पृष्टो-भगवन् ! किमिति मे केवलज्ञानं नोत्पद्यते ? भगवता व्याकृतं - भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात् तेनोक्तम्भगवन्नेवमेवं-(मेतत्), किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेह : ? ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः ‘चिरसंसिट्ठोऽसि मे गोयमा ! चिर परिचिओऽसि मे गोयमे' (चिरसंसृष्टोऽसि मया गौतम ! चिरपरिचितोऽसि मम गौतम !) त्येवमादि, तच्च
श्री आचारांग सूत्रम्
(०४३)