SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूवाद्या: प्रज्ञापकदिश: सर्वा गृहीताः भावदिशश्चेति । इममेवार्थं नियुक्तिकृदर्शयितुमना गाथात्रितयमाह जाणइ सयं मईए अन्नेसि वावि अन्तिए सोच्चा । जाणगजणपण्णविओ जीवं तह जीवकाए वा ॥६४ ।। इत्थ य सह संमइअत्ति जं एयं तत्थ जाणणा होई । ओहीमणपज्जवनाणकेवले जाइसरणे य ॥६५॥ परवइ वागरणं पुण जिणवागरणं जिणा परं नत्थि । अण्णेसिं सोच्वंतिय जिणेहिं सव्वो परो अण्णो ॥६६॥ ___ कश्चिदनादिसंसृतौ पर्यटन्नवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति । अनानुपूर्वीन्यायप्रकटनार्थं पश्चादुपात्तमप्यन्येषामित्येतत्पदं तावदाचष्टे-'अन्येषां वा' अतिशयज्ञानिनामन्तिके श्रुत्वा जानाति, तथा 'जाणगजणपण्णविओ' इत्यनेन परव्याकरणमुपात्तं, तेनायमों-ज्ञापक:तीर्थकृत्तत्प्रज्ञापितश्च जानाति, यज्जानाति तत् स्वत एव दर्शयतिसामान्यतो 'जीव'मिति, अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा 'जीवका-यांश्च' पृथ्वीकायादीन् इत्यनेन चोत्तरेषां षण्णामप्युद्देशकानां यथाक्रममधिकारार्थमाहेति, अत्र च ‘सह सम्मइए'त्ति सूत्रे यत्पदं तत्र जाणणत्ति ज्ञानमुपात्तं भवति, ‘मति ज्ञाने' मननं मतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति-‘अवधिमन:पर्यायकेवलजातिस्मरणरूप'मिति, तत्रावधिज्ञानी संख्येयानसंख्येयान्वा भवान् जानाति, एवं मनःपर्यायज्ञान्यपि, केवलज्ञानी तु नियमतोऽनन्तान्, जातिस्मरणस्तु नियमतः संख्येयानिति, शेषं स्पष्टम् । अत्र च सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ता: प्रदर्शयन्ते, तद्यथा-वसन्तपुरे नगरे जितशत्रू राजा, धारणी नाम महादेवी, तयोर्द्धर्मारुच्यभिधान: सुत:, स च राजाऽन्यदा तापसत्वेन प्रव्रजितु-मिच्छुर्द्धर्मरुचिं राज्ये स्थापयितुमुद्यतः, तेन च जननी पृष्टाकिमिति तातो राज्यश्रियं त्यजति ?, तयोक्तम्-किमनया चपलया श्री आचारांग सूत्रम् (०४२)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy