________________
मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमत: सहशब्दविशेषणं, सहशब्दश्वासमस्त इति, सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोधः इति, सा पुनः सन्मतिः स्वमतिर्वा अवधिमनपर्यायकेवलज्ञानजातिस्मरणभेदाश्चतुर्विधा ज्ञेया, तत्रावधिमन:पर्यायकेवलानां स्वरूपमन्यत्र विस्तरेणोक्तं, जातिस्मरणं त्वाभिनिबोधिकविशेष:, तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च पर:- तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्याकरणम् - उपदेशस्तेन जीवांस्तद्भेदांश्चपृथिव्यादीन् तद्गत्यागती च जानाति, अपरः पुनः 'अन्येषां' तीर्थंकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वा जानातीति, यच्च जानाति तत् सूत्रावयवेन दर्शयति - तद्यथा - पूर्व्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमायाः उत्तरस्या ऊर्ध्वदिशोऽधोदिशोन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थंकरान्यातिशयज्ञानिबोधितानां च ज्ञातं भवति, तथा प्रतिविशिष्टदिगाग - मनपरिज्ञानानन्तरमेषामेतदपि ज्ञातं भवति - यथा अस्ति मेऽस्य शरीरकस्या-धिष्ठाता ज्ञानदर्शनोपयोगलक्षण 'उपपादुको' भवान्तरसंक्रांतिभाग् असर्व-गतो भोक्ता मूर्त्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिभुणवानात्मेति । स च द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभेदादष्टधा, तत्रो - पयोगात्मना बाहुल्येनेहाधिकारः, शेषास्तु तदंशतयोपयुज्यन्त इति उपन्यस्ताः । तथा अस्ति च ममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् 'अनुसञ्चरति' गतिप्रायोग्यकर्मोपादानादनुपश्चात् सञ्चरत्यनुसञ्चरति, 'पाठान्तरं' वा 'अणुसंसरइत्ति दिग्विदिशां गमनं भावदिगागमन वा स्मरतीत्यर्थः । साम्प्रतं सूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरतिसर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसञ्चरति अनुसंस्मरतीति वा सः 'अह'मित्यात्मोल्लेखः,
श्री - आचारांग सूत्रम्
(०४१)