________________
स्यात् ।।१॥ प्रतिषेद्धप्रतिषेधौ स्तश्चेच्छून्यं कथं भवेत्सर्वम् ? । तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ॥२॥ एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ॥३।। गतमानुषङ्गिकं, प्रकृतमनुस्रियते-तत्रेह ‘एवमेगेसिं णो णायं भवई' इत्यनेन केषाञ्चिदेव संज्ञानिषेधात्केषाञ्चित्तु भवतीत्युक्तं भवति, तत्र सामान्यसंज्ञाया: प्रतिप्राणि सिद्धत्वात्तत्कारणपरिज्ञानस्य चेहाकिश्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाश्चिदेव भावात् तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमगादृत्य विशिष्टसंज्ञाया: कारणं सूत्रकृद्दर्शयितुमाह___ से जं पुण जाणेज्जा सह संमइयाए (इए) परवागरणेणं अण्णेसिं अंतिए वा सोचा, तंजहा-पुरत्थिमाओ वा दिसाओ आगओ अहमंसि जाव अण्णयरीओ दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं णायं भवति-अत्थि मे आया उववाइए, जो इमाओ दिसाओ अणुदिसाओ वा अणुसंचरइ (अणुसंसरइ) सव्वाओ दिसाओ अणुदिसाओ, सोऽहं ।।सू.४ ।।
' से जं पुण जाणेजत्ति सूत्रं यावत् सोऽहमिति से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्त:, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते, यदित्यनेनापि यत्प्राग्निर्दिष्टं दिग्विदिगागमनं, तथा कोऽहमभूवमतीतजन्मनि देवो नारकस्तिर्यग्योनो मनुष्यो वा ? स्त्री पुमानपुंसको वा ?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽहं त्य देवादिर्भविष्यामीत्येतत्परामृश्यते, 'जानीयाद्' अवगच्छेद् इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटन्नसुमान् दिगागमनादिकं जानीयात्, य: पुनर्जानीयात्स एवं सह सम्मइयाए'त्ति सहशब्दः सम्बन्धवाची, सदिति प्रशंसायां, मति:-ज्ञानम्. अयमत्र वाक्यार्थ:-आत्मना सह सदा या सन्मतिर्वर्त्तते तया सन्मत्या कश्चिन्जानीते, सहशब्दविशेषणाच्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणां व्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनि समवेतेति । यदि वा 'सम्मइए'त्ति स्वकीयया
श्री आचारांग सूत्रम्
(०४०)