________________
मुत्तावली य चउरो दो चेव हवंति रुयगनिभा ।।४६ ।। ___ महादिशश्चतस्रोऽपि शकटोर्द्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, ऊर्ध्वाधोदिग्द्वयं रुचकाकारमिति ।। तापदिशमाह
जस्स जओ आइच्चो उदेइ सा तस्स होइ पुव्वदिसा । जत्तो अ अत्थमेइ उ अवरदिसा सा उ णायव्वा ।।४७।।
दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया ॥४८॥
तापयतीति ताप-आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगम, केवलं दक्षिणपार्थादिव्यपदेश: पूर्वाभिमुखस्येति द्रष्टव्यः ।। तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह
जे मंदरस्स पुव्वेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सव्वेसिं उत्तरो मेरू ।।४९ ।। सव्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणओ । पुव्वेणं उठेई अवरेणं अत्थमइ सूरो ॥५० ।।
ये 'मन्दरस्य' मेरो: पुर्वेण मनुष्या: क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्खं वेदितव्यं, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापदिगङ्गीकरणेन शेषं स्पष्टम् ।। प्रज्ञापकदिशिमाहजत्थ य जो पण्णवओ कस्सवि साहइ दिसासु य णिमित्तं । जत्तोमुहो य ठाई सा पुव्वा पच्छओ अवरा ॥५१॥
प्रज्ञापको यत्र क्वचित् स्थित: दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्ठत श्चापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति ।। शेषदिक्साधनार्थमाह
दाहिणपासंमि उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ ॥५२॥ एयासिं चेव अट्ठण्हमंतरा अठ्ठ हुंति अण्णाओ । सोलस सरीरउस्सयबाहल्ला सव्वतिरियदिसा ॥५३ ।।
श्री आचारांग सूत्रम्
(०३१)