________________
ऊर्ध्व विमला तम चाध: बोद्धव्या इति, स्थापना चेय ॥ आसामेव स्वरूपनिरूपणा-याह
दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरा दुण्णि ॥४४।।
चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चतस्र एकप्रदेशरचनात्मिका: 'अनुत्तरा' वृद्धिरहिताः, ऊर्ध्वाधोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् ।। किञ्च
अंतो साईआओ बाहिरपासे अपज्जवसिआओ । सव्वाणंतपएसा सव्वा य भवंति कडजुम्मा ।।४५ ।।
सर्वाऽप्यन्तः-मध्ये सादिका रुचकााद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, 'सर्वाश्च' दशाप्यनन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्म'त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापह्रियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तत्प्रदेशात्मिकाश्च दिश आगमसंज्ञया कडजुम्मत्तिशब्देनाभिधीयन्ते, तथा चागम:'कई णं भंते ! जुम्मा पण्णत्ता ?, गोयमा ! चत्तारि जुम्मा पण्णत्ता, तंजहा-कडजुम्मे तेउए दावरजुम्मे कलिओए । से केणटेणं भंते ! एवं वुच्चई ? गोयमा ! जे णं रासी चउक्कगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया, से णं कडजुम्मे, एवं तिपज्जवसिए तेउए, दुपज्जव-सिए दावरजुम्मे, एग पज्जवसिए कलिओए'ति ।। (कइ भदन्त ! युग्मा: प्रज्ञप्ता: ?, गौतम ! चत्वारो युग्मा: प्रज्ञप्ताः, तद्यथा-कृतयुग्म: त्र्योजः द्वापर-युग्म: कल्योजः । अथ केनार्थेन भदन्तैवमुच्यते ?, गौतम ! यौराशिश्चतुष्ककापहारेणापह्रियमाणोऽपह्रियमाणश्चतुष्पर्यवसित: स्यात् स कृतयुग्मः, एवं त्रिपर्यवसितस्त्र्योजः द्विपर्यवसितो द्वापर युग्मः, एकपर्यवसित: कल्योजः ।) पुनरप्यासां संस्थानमाह__ सगडुद्धीसंठिआओ महादिसाओ हवंति चत्तारि ।
श्री आचारांग सूत्रम्
(०३०)