________________
किन्तु यदि मूर्छा रूपादिषु करोति, ततोऽस्य बन्ध इति दर्शयितुमाह'उड्ड'मित्यादि पुनरुर्खादेर्मूर्छासम्बन्धनार्थमुपादानं, मूर्छन् रूपेषु मूर्छति, रागपरिणामं यान् रज्यते रूपादिष्वित्यर्थः, एवं शब्देष्वपि मूर्छति, अपिशब्दः सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, ‘एकग्रहणे तज्जातीयानां ग्रहणाद्, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति ॥' एवं विषयलोकमाख्याय विवक्षितमाह
एस लोए वियाहिए एत्थ अगुत्ते अणाणाए ।।सू० ४२ ॥
एष' इति रूपरसगन्धस्पर्शशब्दविषयाख्योलोको व्याख्यातः, लोक्यते परिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनोवाक्कायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादिविषयदेशमभिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्त्तते, न भगवत्प्रणीतप्रवचनानुसारीतियावदिति । एवं गुणश्च यत्कुर्यात्तदाह
पुणो पुणो गुणासाए, वंकसमायारे ॥ सू० ४३॥ ...
ततश्चासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेनिवर्तयितुम्, अनिवर्तमानश्च पुनः पुनर्गुणास्वादो भवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा च यादृशो भवति तदर्शयति-वक्र:असंयम: कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात्, समाचरणं समाचार:अनुष्ठानं, वक्र: समाचारो यस्यासौ वक्रसमाचारः, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमईकारीत्यतो वक्रसमाचारः, प्राक् शब्दादिविषयलवसमा-स्वादनाद्गृद्धः पुनरात्मानसमाचारयितुमसमर्थत्वादपथ्याम्रफलभोजिराजवद्विनाशमाशु संश्रयत इति । एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् ‘खंतपुत्तोव्व' इदमाचरति
पमत्तेऽगारमावसे ॥ सू० ४४ ॥
प्रमत्तो विषयविषमूर्छितः ‘अगारं' गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति । अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथा
श्री आचारांग सत्रम