SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ धानतूलिकप्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्यन्ति, एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्त्तते स आवर्ते वर्त्तते, यश्च आवर्त्तवर्ती स रागद्वेषात्मकत्वात् गुणेषु वर्त्तत इति, स चावतॊ नामादि-भेदाच्चतुर्दा, नामस्थापने क्षुण्णे, द्रव्यावर्त्तः स्वामित्वकरणाधिकरणेषु यथास-म्भवं योज्य:, स्वामित्वे नद्यादीनां क्वचित्प्रविभागे जलपरिभ्रमणं द्रव्यस्यावर्त्तः, द्रव्याणां वा हंसकारण्डवचक्रवाकादीनां व्योम्नि क्रीडतामावर्त्तनादावर्त्तः, करणे तु तेनैव जलद्रव्येण भ्रमता यदन्यदावर्त्तते तृणकलिञ्चादि स द्रव्येणावर्त्तः, तथा त्रपुसीसकलोहरजत-सुवर्णोरावर्त्यमानैर्यदन्यत्तदन्तः पात्यावर्त्यते स द्रव्यैरावर्त्तत इति, अधिकरणविवक्षायामेकस्मिन् जलद्रव्ये आवर्तस्तथा रजतसुवर्णरीति-कात्रपुसीसकेष्वेकस्थीकृतेषु बहषु द्रव्येष्वावर्त्तः, भावावर्तो नामान्योऽन्यभावसङ्क्रान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्त्तते, इह च भावावर्तेनाधिकारो न शेषैरिति ॥अथ य एते गुणा: संसारावर्त्तकारणभूताः शब्दादयो वनस्पतेराभिनिवृत्तास्ते किं नियतदिग्देशभाज: उत सर्व्वदिक्षु इत्यत आह उड्ढे अहं तिरियं पाईणं पासमाणे रूवाई पासति, सुणमाणे सद्दाइं सुणेति, उड्ढं अहं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु आवि ।।सू० ४१॥ प्रज्ञापकदिगङ्गीकरणाखूर्वदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहादिषु, 'अध'मित्यवाङ् अधस्तात् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अध:शब्दार्थे अवाडित्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमा:- ‘प्राचीन मिति पूर्वा दिग्, एतच्चोपलक्षणम्, अन्या अप्येतदाद्यास्तिर्यग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुर्ग्राह्यतया परिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च श्रृण्वन् श्रृणोति शब्दानु-पयुक्त: श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमानं प्रतिपादितं, न चोपलब्धिमात्रात्संसार-प्रपात:, श्री आचारांग सूत्रम् (११)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy