________________
आह चसइकाले चरे भिक्खू, कुज्जा पुरिसकारिअं । अलाभुत्ति न सोइज्जा, तवुत्ति अहिआसए ॥१६५॥
सइत्ति, सति-विद्यमाने भिक्षाकाले-भिक्षासमये चरेत् भिक्षुः । अन्ये तु व्याचक्षते-स्मृतिकाल एव भिक्षाकालोऽभिधीयते, संस्मर्यन्ते यत्र भिक्षुकाः स स्मृतिकालः तस्मिन् चरेत् भिक्षुः- भिक्षार्थं यायात्, कुर्यात् पुरुषकारं, जङ्घाबले सति वीर्याचारं न लङ्घयेत्, तत्र चालाभे सति भिक्षाया अलाभ इति न च शोचयेत्, वीर्याचाराराधनस्य निष्पन्नत्वात्, तदर्थं च भिक्षाटनं नाहारार्थमेवातो न शोचयेत्, अपि तु तप इत्यधिसहेत, अनशनन्यूनोदरतालक्षणं तपो भविष्यतीति सम्यग् विचिन्तयेदिति ॥१६५॥
उक्ता कालयतना । अधुना क्षेत्रयतनामाहतहेवुच्चावया पाणा, भत्तट्ठाए समागया । तं उज्जु न गच्छिज्जा, जयमेव परक्कमे ॥१६६॥
तहेवत्ति, तथैवोच्चावचाः-शोभनाशोभनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थं समागताः बलिप्राभृतिकादिष्वागता भवन्ति, तहजुगंतेषामभिमुखं न गच्छेत्, तत्सन्त्रासनेनान्तरायाधिकरणादिदोषात्, किन्तु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति ॥१६६।।
गोयरग्गपविट्ठो अ, न निसीए( इ)ज्ज कत्थई । कहं च न पबंधिज्जा, चिट्ठित्ताण व संजए ॥१६७॥
किंच-गोयरग्गत्ति, गोचराग्रप्रविष्टस्तु भिक्षार्थ प्रविष्ट इत्यर्थः । न निषीदेत्-नोपविशेत्, क्वचित्-गृहदेवकुलादौ संयमोपघातादिप्रसङ्गात्, कथां च-धर्मकथादिरूपां न प्रबध्नीयात्-प्रबन्धेन न कुर्याद्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाह-स्थित्वा कालपरिग्रहेण संयत इति,
श्रीदशवैकालिकम् ।