________________
पानं गवेषयेत्-अन्वेषयेत् अन्यथा सकृद्भुक्तमेव यतीनामिति । विधिना पूर्वोक्तेन "संप्राप्ते भिक्षाकाल" इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति ॥१६२॥
कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥१६३॥
कालेणत्ति, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन निष्कामेत्, भिक्षुव॑ती व्रजेत् वसतेभिक्षायै, कालेन चोचितेनैव, यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत्-निवर्तेत, भणियं च- "खित्तं कालो भायणं तिन्नि वि पहुप्पेति हिंडउ'त्ति अट्ठभंगा", अकालं च वर्जयित्वा येन स्वाध्यायादि न संभाव्यते, स खल्वकालः तमपास्य काले कालं समाचरेदिति सर्वयोगोपसङ्ग्रहार्थं निगमनं, भिक्षावेलायां भिक्षां समाचरेत्, स्वाध्यायादिवेलायां स्वाध्यायादीनीति । उक्तं च"जोगो जोगो जिणसासणंमि दुक्खक्खया पउंजते । अन्नोन्नमबाहाए असवत्तो होइ कायव्वो ॥१॥" (ओघ० नि० गा० २७७) ॥१६३।।
अकालचरणे दोषमाहअकाले चरसी भिक्खू, कालं न पडिलेहसि । अप्पाणं च किलामेसि, संनिवेसं च गरिहसि ॥१६४॥
अकालेत्ति, अकालचारी कश्चित्साधुरलब्धभैक्षः केनचित्साधुना 'प्राप्ता भिक्षा न वे'त्यभिहितः सन्नेवं ब्रूयात्कुतोऽत्र स्थण्डिलसन्निवेशे भिक्षा ?, स तेनोक्तः-अकाले चरसि भिक्षो ! प्रमादात् स्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो न वेति, अकालचरणेनात्मानं च क्लामयसि (ग्लपयसि) दीर्घाटनन्यूनोदरताभावेन, सन्निवेसं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपद्येति । यस्मादयं दोष: सम्भाव्यते तस्मादकालाटनं न कुर्यादिति ॥१६४॥
श्रीदशवैकालिकम् ।