________________
अथ पंचम पिण्डैषणाऽध्ययनस्य द्वितीय उद्देशकः ।
पिण्डैषणायाः प्रथमोद्देशक एव प्रक्रान्तोपयोगि यन्नोक्तं तद् द्वितीये समुपदर्शयन्नाह
पडिग्गहं संलिहित्ता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए ॥१६०॥
'पडिग्गहं'त्ति-प्रतिग्रह-भाजनं, संलिह्य-प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-लेपमर्यादया-अलेपं संलिह्य, संयतः-साधुः, दुर्गन्धि वा सुगन्धि वा भोजनजातं, गन्धग्रहणं रसाधुपलक्षणं, सर्व-निरवशेषं भुञ्जीतअश्नीयात्, नोज्झेत्-नोत्सृजेत् किञ्चिदपि, मा भूत्संयमविराधनेति । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्थयोः व्यत्ययोपन्यासः । प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थ वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा सर्व भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति ॥१६०॥
विधिविशेषमाहसेज्जा निसीहियाए, समावन्नो य गोअरे । अयावयट्ठा भुच्चा णं, जइ तेणं न संथरे ॥१६१॥
'सेज्जत्ति शय्यायां-वसतौ नैषेधिक्यां-स्वाध्यायभूमौ शय्यैव वा असमञ्जसनिषेधान्नैषेधिकी तस्यां, समापन्नो वा गोचरे, क्षपकादिः, छात्र(छन्न)मठादौ च, अयावदर्थं भुक्त्वा न यावदर्थं अपरिसमाप्तमित्यर्थः । णमिति वाक्यालङ्कारे । यदि तेन-भुक्तेन, न संस्तरेत् न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वा भवंति ॥१६१॥
तओ कारणमुप्पपणे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ॥१६२॥ 'तओ'त्ति ततः कारणे-वेदनादौ उत्पन्ने पुष्टालम्बनः सन् भक्त
श्रीदशवैकालिकम् ।