________________
निवेदितं - अहं लोकानुग्रहणेन, क्षुल्लकसाधुनोक्तं - अहं मुधिकयेति, ततस्तां नरपतिः पुनरपि जगाद-कथमेवेति । ततः प्रथमो जगाद-अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि तेन मुखेन जीवामीति । द्वितीय: प्राह- अहं हि लेखवाहको घटिकामध्ये योजनं लंघयामि, तेन पादाभ्यां जीवामि । तृतीयः प्राह- अहं हि लेखक:, अतो हस्ताभ्यां जीवामि । भिक्षुकेणोक्तम् अहं प्रव्रजितः अतो लोकाणामनुग्रहेण निर्वहणं । पुनः क्षुल्लकसाधुनोक्तं प्रव्रजितोऽहं जन्मजरा-मरणरोगशोकव्याध्युपद्रवशतोपद्रूतं दारिदौर्भाग्यकलङ्कव्रातकलुषितमिष्टवियोगानिष्टसंयोगदुःखजनितकृशतरकायं क्षुधापिपासाशीतोष्णक्लेशसहस्त्रसंकुलं दैन्यचिंताजरादिभिः क्षणमप्यमुक्तसमीपं संसारं विलोक्य, ततो निर्विण्णः प्रतिपद्यामुं शारीर-मानसानेकदुःखजलधिविलंघनसेतुं सौभाग्यसौजन्यौदार्योपकारकरणपटिष्टं ज्ञानविज्ञानजनकं विजितसमस्तराजन्यचक्रराजसंपादकं स्वर्गावाससंपादितसुखातिशयसंदोहं मोक्षफलदायकं जैनधर्म्म, ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति । निशम्य तद्भाषितमहो एष धर्मः सर्वदुःखमोक्षसाधक इति निश्चित्य, विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो राज्ये सुतं संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत् । एष मुधाजी - वीति ॥ १५९ ॥
॥ इति पिण्डैषणाध्ययनस्य प्रथमोद्देशकः ५-१ ॥
出版
श्रीदशवैकालिकम् ।
७९