________________
अनेषणाद्वेषादि-दोषप्रसङ्गादिति, सूत्रार्थः ॥१६७।।
उक्ता क्षेत्रयतना । द्रव्ययतनामाहअग्गलं फलिहं दारं, कवाडं वावि संजए । अवलंबिआ न चिट्ठज्जा, गोयरग्गगओ मुणी ॥१६८॥
अग्गलमिति, अर्गलां-गोपुरकपाटादिसम्बन्धिनी फलकंपाटकादिस्थगनं, द्वारं शाखामयं, कपाटं द्वारयन्त्रं, वापि संयतोऽबलम्ब्य न तिष्ठेल्लाघवविराधनादोषात् । गोचराग्रगतो-भिक्षाप्रविष्टः, संयतो यतिः मुनिपर्यायौ, तदुपदेशाधिकाराद-दुष्टावेवेति ॥१६८।।
उक्ता द्रव्ययतना । भावयतनामाहसमणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा, पाणट्ठाए व संजए ॥१६९॥ उक्ता द्रव्ययतना । भावयतनामाह
समणंति, श्रमणं-निर्ग्रन्थादिरूपं, ब्राह्मणं-धिग्वर्णं, वापि कृपणं वा पिण्डोलकं, वनीपकं-दरिद्रं चतुर्णामन्यतममुपसङ्क्रामन्तं-सामीप्येन गच्छन्तं वा गतं वा भक्तार्थं पानार्थं वा संयतः-साधुरिति ॥१६९॥
तमइक्कमित्तु न पविसे, नवि चिढे चक्खुगोयरे । एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए ॥१७०॥
तमइक्कमित्तुत्ति, तं-श्रमणादिमतिक्रम्योल्लङ्घ्य न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे, कस्तत्र विधिरित्याहएकान्तमवक्रम्य तत्र तिष्ठेत्संयत इति ॥१७०॥
अन्यथैतद्दोषा इत्याहवणीमगस्स वा तस्स, दायगस्सुभयस्स वा । अप्पत्तिअं सिआ हुज्जा, लहुत्तं पवयणस्स वा ॥१७१॥
श्रीदशवैकालिकम् ।