________________
. 'वणीमगस्स'त्ति, वनीपकस्य वा तस्येत्येतत् श्रमणाद्युपलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित्स्यात्-अहो अलौकिकज्ञतैतेषामिति लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति तस्मान्नैव कुर्यात् ॥१७१।।
पडिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए । उवसंकमिज्ज भत्तट्ठा, पाणट्ठाए व संजए ॥१७२॥
किंतु-पडिसेहिए वेति, प्रतिषिद्धे वा दत्ते वा ततः स्थानात् तस्मिन् वनीपकादौ निवर्तिते सति उपसङ्क्रामेत् भक्तार्थं पानार्थं वापि संयत इति ॥१७॥
परपीडाप्रतिषेधाधिकारादिदमाहउप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसच्चित्तं, तं च संलुंचिआ दए ॥१७३॥
उप्पलंति, उत्पलं-नीलोत्पलादि, पद्म-अरविन्दं, कुमुदं वा गर्दभकं वा मगदन्तिकां मेत्तिकां, मल्लिकामित्यन्ये, तथाऽन्यद्वा पुष्पं सचित्तंशाल्मलीपुष्पादि, तच्च-संलुञ्च्य-अपनीय छित्त्वा दद्यादिति ॥१७३॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइतारिसं ॥१७४॥
तारिसंति, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवं अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१७४।।
उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुष्फसच्चित्तं, तं च संमद्दिआ दए ॥१७५॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥१७६॥
एवं तच्च संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनम्, शेषं सूत्रद्वयेऽपि तुल्यम् । आह 'एतत्पूर्वमप्युक्तमेव, “संमद्द
श्रीदशवैकालिकम् ।
८४