________________
माणी पाणाणि, बीयाणि हरियाणिं य," इत्यत्र, उच्यते-उक्तं नाम सामान्येन, विशेषाऽभिधानाददोषः ॥१७५-१७६॥
सालुयं वा विरालियं, कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं, उच्छुखंडं अनिव्वुडं ॥१७७॥
तथा सालुयंति, शालूकं-उत्पलकन्दं, विरालिका-पलाशकन्दरूपां, पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये । कुमुदोत्पलनालौ प्रतीतौ, तथा मृणालिकां-पद्मिनीकन्दोत्थाम्, सर्षपनालिकां-सिद्धार्थकमञ्जरी, तथेक्षुखंडमनिर्वृत्तं-सचित्तं, एतच्चानिवृतग्रहणं सर्वत्राभिसम्बध्यते इति ॥१७७॥
तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरिअस्स, आमगं परिवज्जए ॥१७८॥
किंच-तरुणगंति, तरुणकं वा प्रवालं-पल्लवं, वृक्षस्य-चिञ्चिणिकादेः, तृणस्य वा-मधुरतृणादेः, अन्यस्य वापि हारितस्यार्यकादेः, आमकं-अपरिणतं परिवर्जयेदिति ॥१७८॥
तरुणिगं वा छिवार्डि, आमिअं भज्जिअं सई । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१७९॥
तथा तरुणियं वत्ति, तरूणां वा असंजातां वा छिवाडिमिति मुद्गादिफलिं, आमामसिद्धां सचेतनां, तथा भजितां, सकृत्-एकवारं, ददतीं प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति ॥१७९॥
तहा कोलमणुस्सिन्नं, वेलुअं कासवनालिअं । तिलपप्पडगं नीम, आमगं परिवज्जए ॥१८०॥
तहा कोलंति, तथा कोलं-बदरं अश्विनं-वह्नयुदकयोगेनाऽनापादितविकारान्तरं, तथा वेलुकं वंसकरिल्लं, कासवनालिकां श्रीपर्णीफलं, अस्विन्नमिति सर्वत्र योज्यम् । तथा तिलपर्पटकं-पिष्टतिलमयं, नीमंश्रीदशवैकालिकम् ।