________________
वा-तद्रहितं वा, “कथयित्वा अकथयित्वा वा दत्त" मित्यन्ये । आईप्रचुरव्यञ्जनं, यदि वा शुष्कं-स्तोकव्यञ्जनं वा, किं तदित्याह-मन्थुकुल्माषभोजनं मन्थु-बदरचूर्णादि, कुल्माषा:-सिद्धमाषाः, “यवमाषा" इति केचिदिति ॥१५७॥
एतद्भोजनं किमित्याहउप्पण्णं नाइहीलिज्जा, अप्पं वा बहुफासुअं । मुहालद्धं मुहाजीवी, भुंजिज्जा दोसवज्जिअं ॥१५८॥
'उप्पन्नं 'त्ति सूत्रं, उत्पन्न-विधिना प्राप्तं, नातिहीलयेत्-सर्वथा न निन्दयेत्, अल्पमात्रमेतत् न देहपूरकमिति किमनेन ? बहु वा असारप्रायमिति । वाशब्दस्य व्यवहितः सम्बन्धः, किंविशिष्टं तदित्याहप्रासुकं-प्रगतासु निर्जीवमित्यर्थः । अन्ये तु व्याचक्षते-“अल्पं वा, वाशब्दाद्विरसादि वा, बहु प्रासुकं-सर्वथा शुद्धं नातिहीलये"दिति, अपि त्वेवं भावयेत्-यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति, एवं मुधा लब्धं-कोण्टलकादिव्यतिरेकेण प्राप्तं, मुहाजीवी-सर्वथा अनिदानजीवी, "जात्याद्यनाजीवक" इत्यन्ये, भुञ्जीत दोषवर्जितं-संयोजनादिरहितमिति ॥१५८॥
एतदुरापमपि दर्शयतिदुल्लहाउ मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाई मुहाजीवी, दोवि गच्छंति सुग्गइं ॥१५९॥ तिबेमि॥ पिंडेसणाए पढमो उद्देसो समत्तो ५-१ ॥
'दुल्लह'त्ति-दुर्लभा एव मुधादातारः, तथा-विधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः तथाविधचेल्लकवत्, अमीषां फलमाहमुधादातारो मुधाजीविनश्च द्वांवप्येतौ गच्छतः सुगति-सिद्धिगति कदाचिदनन्तरमेव, कदाचित् देवलोकसुमानुषत्वप्रत्यागमपरम्परया, ब्रवीश्रीदशवैकालिकम् ।