________________
'साहवो 'त्ति-साधूंस्ततो गुर्व्वनुज्ञातः सन् 'चिअत्तेणं 'त्ति मनःप्रणिधानेन निमन्त्रयेत् यथाक्रमं यथारत्नाधिकतया, "ग्रहणौचित्यापेक्षया बालादिक्रमेणे" त्यन्ये । यदि तत्र केचन धर्मबान्धवा इच्छेयुःअभ्युपगच्छेयुः, ततस्तैः सार्धं भुञ्जीतोचितसंविभागदानेनेति ॥ १५४ ॥ अह कोई न इच्छिज्जा, तओ भुंजिज्ज एग ( क )ओ । आलोए भायणे साहू, जयं अप्परिसाडियं ॥ १५५॥
'अह कोई 'त्ति अथ कश्चिन्नेच्छेत् साधुस्ततो भुञ्जीत एककोरागादिरहित इति । कथं भुञ्जीतेत्यत्राह - आलोके भाजने मक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन इत्यर्थः । साधुः - प्रव्रजितः यतं - प्रयत्नेन तत्रोपयुक्तं, अपरिशाटं हस्तमुखाभ्यां अनुज्झन्निति ॥ १५५ ॥
भोज्यमधिकृत्य विशेषमाह
तित्तगं व कडुअं व कसायं, अंबिलं व महुरं लवणं वा । एअलद्धमन्नत्थ पउत्तं, महुघयं व भुंजिज्ज संजए ॥१५६॥
'तित्तगं वत्ति - तिक्तकं वा एलुकवालुङ्कादि, कटुकं वाऽऽर्द्रकतीमनादि, कषायं वल्लादि आम्लं तक्रारनालादि, मधुरं क्षीरमध्वादिकं लवणं वा प्रकृतिक्षारं तथाविधशाकादिलवणोत्कटं वान्यत्, एतत् तिक्तकादि लब्धं - आगमोक्तेन विधिना प्राप्तं अन्यार्थं "अक्षोपाङ्गन्यायेन" परमार्थतो मोक्षार्थं प्रयुक्तं तत् साधकमिति कृत्वा मधुघृतमिव भुञ्जीत संयतः, न वर्णाद्यर्थं । अथवा मधुघृतमिव "नो वामाओ हणुयाओ दाहिणं हणुयं संचारेज्ज "त्ति ॥१५६॥
अरसं विरसं वावि, सूइअं वा असूइअं ।
उल्लं वा जइ वा सुक्कं मंथुकुम्मासभोअणं ॥ १५७॥ किञ्च-'अरसं'ति अरसं- अप्राप्तरसं हिङ्ग्वादिभिरसंस्कृतमित्यर्थः, विरसं वा-विगतरसमतिपुराणौदनादि, सूचितं - व्यञ्जनादियुक्तं असूचितं
७६
श्रीदशवैकालिकम् ।
,