SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥१५१॥ 'अहो जिणेहिं-त्ति 'अहो' विस्मये, जिनैः-तीर्थकरैः, असावद्याअपापा, वृत्तिः-वर्तना, साधूनां दर्शिता देशिता वा मोक्ष साधनहेतोःसम्यग्दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य धारणाय-संधारणार्थमिति ॥१५१॥ नमुक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पट्ठवित्ता णं, वीसमेज्ज खणं मुणी ॥१५२॥ ततश्च 'नमोक्कारेणं'त्ति-नमस्कारेण पारयित्वा 'नमो अरिहंताण' मित्यनेन, कृत्वा जिनसंस्तवं “लोगस्सुज्जोअगरे" इत्यादिरूपं, ततो यदि न पूर्वं प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तमेव कुर्यात् यावदन्ये आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् क्षणं-स्तोककालं मुनिरिति ॥१५२।। वीसमंतो इमं चिन्ते, हियमढें लाभमट्ठिओ । जइ मे अणुग्गहं कुज्जा, साहू हुज्जामि तारिओ ॥१५३॥ 'वीस्समंतो'त्ति-विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, हितंकल्याणप्रापकमर्थं-वक्ष्यमाणलक्षणं, किंविशिष्टः सन् ? भावलाभेननिर्जरादिनाऽर्थोऽस्येति, लाभार्थिकः, यदि मे-ममानुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति ॥१५३॥ एवं सञ्चिन्त्योचितवेलायां आचार्यमामन्त्रयेत्, यदि गृह्णाति शोभनं, नो चेद्वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरं, अथ भणति-'त्वमेव प्रयच्छ' अत्रान्तरे साहवो तो चिअत्तेणं, निमंतिज्ज जहक्कम । जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए ॥१५४॥ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy