SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ गुरोः मुनिर्गुरुसमीप इत्यर्थः । ईर्यापथिकीमादाय 'इच्छामि पडिक्कमिउं इरियावहियाए' इत्यादि सूत्रं पठित्वा, आगतश्च गुरुसमीपं प्रतिकामेत्कायोत्सर्गं कुर्यादिति ॥१४७॥ आभोइत्ताण नीसेसं, अईआरं जहक्कमं । गमणागमणे चेव, भत्तपाणे व संजए ॥१४८॥ 'आभोइत्ताण 'त्ति-तत्र कायोत्सर्गे आभोगयित्वा-ज्ञात्वा निःशेषमतिचारं यथाक्रमं परिपाट्या क्वेत्याह-गमनागमनयोश्चैव-गमने-गच्छत आगमने-आगच्छतो योऽतिचारः, तथा भक्तपानयोश्च-भक्ते पाने च योऽतिचारस्तं संयतः-साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति ॥१४८॥ विधिनोत्सारिते चैतस्मिन्उज्जुप्पन्नो अणुव्विग्गो, अव्वक्खित्तेण चेअसा । आलोए गुरुसगासे, जं जहा गहिअं भवे ॥१४९॥ 'उज्जुप्पन्नो 'त्ति-ऋजुप्रज्ञः-अकुटिलमतिः सर्वत्र, अनुद्विग्नःक्षुधादिजयात् प्रशान्तः, अव्याक्षिप्तेन चेतसा, अन्यत्रो-पयोगमगच्छतेत्यर्थः, आलोचयेत् गुरुसकाशे-गुरोनिवेदयेदितिभावः । यदशनादि यथा-येन प्रकारेण हस्तप्रदा(धाव)नादिना गृहीतं भवेदिति सूत्रार्थः ॥१४९।। न सम्ममालोइयं हुज्जा, पुचि पच्छा व जं कडं । पुणो पडिक्कमे तस्स, वोसट्ठो चिंतए इमं ॥१५०॥ तदनु च 'न संमंत्ति-न सम्यगालोचितं भवेत् सूक्ष्मं अज्ञानात् अनाभोगेनाननुस्मरणाद्वा, पूर्वं पश्चाद्वा यत्कृतं, पुरःकर्म पश्चात्कर्म चेत्यर्थः। पुनरालोचनोत्तरकालं प्रतिकामेत्, तस्य-सूक्ष्मातिचारस्य 'इच्छामि पडिक्कमिडं गोयरचरियाए' इत्यादि सूत्रं पठित्वा व्युत्सृष्ट:कायोत्सर्गस्थः, चिन्तयेदिदं-वक्ष्यमाणलक्षणमिति ॥१५०॥ ७४ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy