________________
तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ १४४॥
'तं उक्खिवित्तु' इति, तदस्थीत्युत्क्षिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत्, तथा आस्येन मुखेन नोज्झेत् मा भूद्विराधनेति, अपि तु हस्तेन गृहीत्वा तदस्थ्यादि एकान्तमवक्रामेदिति ॥ १४४ ॥
एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ । जयं परिद्वविज्जा, परिट्ठप्प पडिक्कमे ॥१४५॥
'एगंते 'ति - एकान्तमवक्रम्याचित्तं प्रत्युपेक्ष्यं यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामयेदिति भावार्थ: पूर्ववदेवेति ॥१४५॥
वसतिमधिकृत्य भोजनविधिमाह
सिआ य भिक्खू इच्छिज्जा, सिज्जमागम्म भुत्तुअं । सपिंडपायमागम्म, उंडुयं पडिलेहिआ ॥ १४६ ॥
सिआ यत्ति, स्यात्कदाचित् तद् द्रव्यं कारणाभावे सति भिक्षुरिच्छेदिति शय्यां वसतिमागम्य परिभोक्तुं तत्रायं विधिः- सह पिण्डपातेन - विशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र बहिरेवोन्दुकं - स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः ॥१४६॥
तत ऊर्ध्व
विणणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ य पडिक्कमे ॥ १४७॥
' विणणं त्ति विशोध्य पिण्डं बहि: 'विनयेन' 'नैषेधिकी नमः क्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य वसतिमिति गम्यते, सकाशे
१. निसिही निसिही निसिही नमो खमासमणाणं । श्रीदशवैकालिकम् ।
७३