________________
प्रतिकामेत् ईयापथिकां । एतच्च बहिसगतनियमकरणसिद्धं प्रतिक्रमणं अबहिरपि प्रतिष्ठाप्य प्रतिक्रमण-नियमज्ञापनार्थमिति ॥१४०॥
एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाहसिआ य गोयरग्गगओ, इच्छिज्जा परिभुत्तुअं( भुञ्जिउं)। कुट्ठगं भित्ति मूलं वा, पडिलेहित्ताण फासुअं ॥१४१॥
'सिआ यत्ति-स्यात्-कदाचित् गोचराग्रगतो-ग्रामान्तरं भिक्षां प्रविष्ट इच्छेत्, परिभोक्तुं पानादिपिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे कोष्ठकं-शून्यं चट्टमठादि भित्तिमूलं वा कुड्यैकदेशादि प्रत्युपेक्ष्य-चक्षुषा प्रमृज्य च रजोहरणेन प्रासुकं-बीजादिरहितं चेति ॥१४॥
अणुन्नवित्तु मेहावी, परिच्छन्नंमि संवुडे । हत्थगं संपमज्जित्ता, तत्थ भुंजिज्ज संजए ॥१४२॥
तत्र 'अणुन्नवित्तु 'त्ति- अनुज्ञाप्य सागारिकपरिहारतो विश्रमणव्याजेन तत्स्वामिनमवग्रहं मेधावी-साधुः प्रतिच्छन्ने तत्र कोष्ठकादौ संवृत्तःउपयुक्तः सन् साधुरीर्याप्रतिक्रमणं कृत्वा तदनु हस्तकंमुखवस्त्रिकारूपमादायेति वाक्यशेषः । संप्रमृज्य विधिना तेन कायं तत्र भुञ्जीत संयतो रागद्वेषावपाकृत्येति सूत्रार्थः ॥१४२॥
तत्थ से भुंजमाणस्स, अट्ठिअं कंटओ सिआ । तणकट्ठसक्करं वावि, अन्नं वावि तहाविहं ॥१४३॥
'तत्थ 'त्ति-तत्र कोष्ठकादौ से-तस्य साधोः भुञ्जानस्यास्थि कण्टको वा स्यात्, कथञ्चित् गृहीणां प्रमाददोषात्, कारणगृहीते पुद्गल एवेत्यन्ये । तृणं काष्ठं शर्करं चापि स्यात्, उचितभोजने अन्यद्वापि तथाविधं बदरकर्कटादीति ॥१४३॥ . ७२
श्रीदशवैकालिकम् ।