________________
ज्ञात्वेत्यर्थः। अथ शङ्कितं भवेत् पूत्यादिभावेन तत आस्वाद्य रोचयेद्विनिश्चयं कुर्यादिति ॥१३६॥
थोवमासायणट्ठाए, हत्थगंमि दलाहि मे । मा मे अच्चंबिलं पूअं, नालं तण्हं विणित्तए ॥१३७॥
तच्चैवं-'थोवं'त्ति-स्तोकमास्वादनार्थं प्रथमं तावद्धस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मेऽत्यम्लं पूति नालं तृडपनोदाय, ततः किमनेनानुपयोगिना ? इति सूत्रार्थः ॥१३७।।
तं च अचंबिलं पूयं, नालं तिण्हं विणित्तए । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥१३८॥
आस्वादितं च सत्साधुप्रायोग्यं चेत् गृह्यत एव, नो चेदग्राह्यं, अत आह-तं चेति गतार्थं चेति ॥१३८॥
तं च होज्ज अकामेण, विमणेणं पडिच्छिअं । तं अप्पणा न पिबे, नोऽवि अन्नस्स दावए ॥१३९॥
'तं च होज्जे 'ति, तच्चात्यम्लादि भवेदकामेन उपरोधशीलतया विमनस्केन-अन्यचितेन प्रतीच्छितं-गृहीतं तदात्मना कायापकारकमनाभोगधर्मश्रद्धया न पिबेन्नाऽप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणं । इह च "सव्वत्थ संजमं संजमाओ अप्पाणमेवे" त्यादि भावनेति ॥१३९॥
अस्यैव विधिमाहएगंतमवक्कमित्ता, अचित्तं पडिलेहिआ । जयं परिहविज्जा, परिठ्ठप्प पडिक्कमे ॥१४०॥
'एगन्तत्ति-एकान्तं अवक्रम्य-गत्वा अचितं दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन स्थण्डिलमिति गम्यते यतं-अत्वरितं प्रतिष्ठापयेत्, विधिना त्रिः वाक्यपूर्वं व्युत्सृजेत्, प्रतिष्ठाप्य वसतिमागतः श्रीदशवैकालिकम् ।