________________
उक्तोऽशनविधिः । साम्प्रतं पानविधिमाह
तहेवुच्चावयं पाणं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाधोअं विवज्जए ॥१३४॥
'तहेव 'त्ति - तथैव यथा अशनमुच्चावच्चं तथा पानं, उच्चं - वर्णाद्युपेतं द्राक्षापानादि, अवचं - वर्णादिहीनं पूत्यारनालादि, अथवा वारकधावनंगुडघटधावनादीत्यर्थः । संस्वेदजं - पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः । तदुलोदकं त्वट्ठिकरकं (व्रीहिदकं) अधुना - धौतमपरिणतं विवर्जयेदिति ॥ १३४ ॥
अत्रैव विधिमाह
"
जं जाणेज्ज चिराधोयं, मईए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा, जं च निस्संकिअं भवे ॥ १३५ ॥ 'जं जाणेज्ज 'त्ति सूत्रं, तन्दुलोदकं जानीयात्विन्द्यात्, चिरधौतं, कथं जानीयादित्याह-मत्या दर्शनेन वा मत्यातद्ग्रहणादिकर्म्मजया, दर्शनेन वा-वर्णादिपरिणतसूत्रानुसारेण वा च शब्दार्थः, तदप्येवम्भूतं कियती वेलाऽस्य धौतस्येति पृष्ट्वा गृहस्थं श्रुत्वा वा महती वेलेति श्रुत्वा च प्रतिवचनं यच्चेति यदेवं निःशङ्कितं भवति, निरवयवं प्रशान्ततया तन्दुलोदकं तत् प्रतिगृह्णीयादिति । विशेष: पिण्डनिर्युक्तावुक्त इति ॥१३५॥
उष्णोदकादिविधिमाह
अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए । अह संकियं भविज्जा, आसाइत्ताण रोयए ॥१३६॥
'अजीवं 'ति सूत्रं, उष्णोदकं अजीवं परिणतं ज्ञात्वा त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदेवम्भूतं प्रतिगृह्णीयात् संयतः, चतुर्थऱसमपूत्यादि देहोपकारकं मत्यादिना श्रीदशवैकालिकम् ।
७०