________________
तहेव सत्तुचुण्णाई, कोलचुण्णाई आवणे । सक्कुलिं फाणि पूअं, अन्नं वावि तहाविहं ॥१३०॥
'तहेव'त्ति-तथैव सक्तुचूर्णान्, कोलचूर्णान्-बदरसक्तून् आपणेवीथ्यां, तथा शष्कुलिं-तिलपर्पटिकां, फाणितं-द्रवगुडं, पूर्य-कणिक्कादिमयं, अन्यद्वा तथाविधं मोदकादि ॥१३०॥
विक्कायमाणं पसढं, रएणं परिफासि । दितिअं पडियाइक्खे, न मे कम्पइ तारिसं ॥१३१॥
किमित्याह-'विक्काये 'त्ति विक्रायमाणं-विक्रीयमाणमापण इति वर्त्तते । प्रसामनेकदिनस्थापनेन प्रकटमत एव रजसा पार्थिवेन परिस्पृष्टं-व्याप्तं, तदित्थम्भूतं तु ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः ॥१३१॥
बहुअट्ठिअं पुग्गलं, अणिमिसं वा बहुकंटयं । अच्छिअं तिंदुअं बिल्लं, उच्छुखंडं व सिंबलिं ॥१३२॥
किञ्च-बहुअट्ठियं पोग्गल-मिति-बह्वस्थिकं पुद्गलं-मांसं, अनिमिषं वा मत्स्यं वा बहुकण्टकं, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः । अन्ये त्वभिदधति-"वनस्पत्यधिकारात्तथाविधफलाभिधाने एते" इति । तथा चाह-अस्थिकं-अस्थिकवृक्षफलं, तिंदुकंत्ति-तेन्दुकीफलं, बिल्वं इक्षुखण्डं च प्रतीते, शाल्मलिं वा वल्लादिफलं, वाशब्दस्य व्यवहितः सम्बन्ध इति ॥१३२।।
अत्रैव दोषमाहअप्पे सिआ भोअणज्जाए, बहुउज्झियधम्मिअं । देंति पडियाइक्खे, न मे कप्पइ तारिसं ॥१३३॥
'अप्पे'त्ति अल्पं स्यात्, भोजनजातमत्र तथा बहूज्झनधर्मकमेतद्यतश्चैवं अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१३३।। श्रीदशवैकालिकम् ।