________________
उत्सृत्योर्ध्वं कृत्वेत्यर्थः, आरोहेत्, मञ्चं कीलकं चोत्सृत्य, कमारोहेदित्याह-प्रासादं, श्रमणार्थ-साधुनिमित्तं, दायको-दाता आरोहेत्, एतदप्यग्राह्यमिति ॥१२६॥
अत्रैव दोषमाहदुरूहमाणी पवडिज्जा, हत्थं पायं व लूसए । पुढविजीवे विहिसिज्जा, जे अ तन्निस्सिआ जगे ॥१२७॥
'दुरूहमाणि'त्ति, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं वा पादं वा लूषयेत्-स्वकं स्वत एव खण्डयेत्, तथा पृथिवीजीवान् विहिंस्यात् कथञ्चित्तत्रस्थान् तथा यानि च तन्निश्रितानि जगन्ति-प्राणिनस्तांश्च हिंस्यादिति ॥१२७॥
एयारिसे महादोसे, जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया ॥१२८॥
'एयारिसे 'त्ति-इदृशान् अनन्तरोदितरूपान् महादोषान् ज्ञात्वा महर्षयः-साधवो, यस्माद् दोषकारिणी तस्माद् मालापहृतां-मालोपनीतां भिक्षां न प्रतिगृह्णन्ति संयताः । पाठान्तरं वा हंदि मालापहृतामिति, हंदीत्युपदर्शनमिति ॥१२८॥
प्रतिषेधाधिकार एवाहकंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवज्जए ॥१२९॥
'कंदमूलं 'ति-कन्द-सूरणादिलक्षणं, मूलं-पिण्डादिवृन्दारिकादिरूपं, प्रलम्बं वा-तालफलादि, आमं छिन्नं च सन्निरं-सन्निरमिति पत्रशांकं तुम्बाकं त्वग्मिञ्जान्तर्वार्दी वा तुलसी-मित्यन्ये, शृङ्गबेरं च-आर्द्रकं, आमकं परिवर्जयेदिति ॥१२९॥
श्रीदशवैकालिकम् ।
६८