SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विशेषमाह - 'गुव्विणीए 'त्ति, गुर्विण्या - गर्भवत्या, उपन्यस्तं- उपकल्पितं किं तदित्याह - विविधं - अनेकप्रकारं, पानभोजनं द्राक्षापानखण्डखाद्यकादि, तत्र भुज्यमानं तया विवर्ज्यं मा भूत्तस्या अल्पत्वे - नाभिलाषानिवृत्त्या गर्भपातादिदोष इति । भुक्तशेषं भुक्तोद्धरितं प्रतीच्छेत् यत्र तस्या निवृत्तोऽभिलाष इति ॥ ९८ ॥ सिआ अ समणट्ठाए, गुव्विणी कालमासिणी । उआ वा निसीइज्जा, निसन्ना वा पुणु ॥९९॥ किंच- ' सिया ये 'त्ति स्याच्च - कदाचिच्च श्रमणार्थं - साधुनिमित्तं गुव्विणी पूर्वोक्ता कालमासवर्तिनी - गर्भाधानान्नवममासवर्तिनीत्यर्थः । उत्थिता वा यथा कथञ्चित् निषीदन्निषण्णा वा ददामीति साधुनिमित्तं, निषण्णा वा स्वव्यापारेण पुनरुत्तिष्ठेत् ददामीति साधुनिमित्तमेवेति ॥९९॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१००॥ 'तं भवे' इति, तद् भवेद् भक्तपानं तु तथानिषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकं, इह च " स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थिततया दीयमानं कल्पिकं, जिनकल्पिकानां तु आपन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवे" ति सम्प्रदायः । यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति ॥१००॥ थणगं पिज्जेमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ॥ १०१ ॥ किञ्च - थणगंति, स्तनं (न्यं) पाययन्ती, किमित्याह - दारकं किञ्च-थणगंति, कुमारिकां वा, वाशब्दस्य व्यवहितः सम्बन्ध:, अत एव नपुंसकं वा, श्रीदशवैकालिकम् । ६१
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy